पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १६५

प्रीतिप्रयोजितैरित्यनेन परिहासानुकरणे नातिव्याप्तिः । यथा---- 'वेणीबन्धकपर्दमौक्तिकलतास्वर्लोककल्लोलिनी सिन्दूरस्फुटभालनेत्रहुतभुक्श्रीकण्ठभस्माञ्चिता । पातु व्यालवती मृणालवलयैर्वैडूर्यकण्ठाङ्गद- व्यावल्गद्रुचिनीलकण्ठसुषमा गौरी गिरीशाकृतिः ॥'

अथ विलासः । तत्त्वं चेष्टदर्शनसमानकाली[ने]न्द्रियविकारविशेषवत्त्वम् ।

तदुक्तम्-- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषेषु विकारः स्यादिष्टसंदर्शनादिना ॥'

यथा-- 'सदसि सहचरीणामुल्लसत्पाणिवीणा सकलरसधुरीणा गातुमारब्धुमैच्छत् । मयि गतवति तत्र प्रोल्लसत्पद्मपत्र- प्रतिभटपटुनेत्रप्रेङ्खितान्याविरासन् ॥'

यथा वा- 'भाषणभूषणगमनैरनुकुरुते मे सखीषु सा याता । याति मयि तत्र तावद्बभूव तेष्वेव किमपि वैजात्यम् ॥'

अथ विच्छित्तिः तत्त्वं स्वल्पीयसा भूषणेन शोभातिशयपोषकत्वम् । तदुक्तम्---- 'स्तोकायाकल्परचना विच्छित्तिः कान्तिपोषकृत् ।' इति ।