पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः। हा तद्विस्मृतवानपि प्रहितधीः पुण्येन केनाप्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजान्य ।। ५१ ।। स्थूलोऽहं प्रथमं कृशोऽहमधुनेत्येवं शरीरे भव- न्नात्मप्रत्यय एष शास्त्रविवृते भेदेऽपि देहात्मनोः । मामुन्मुञ्चति नेति संप्रति तमुन्मुञ्चेयमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२ ॥ न स्थूलो न कृशस्तथा न पुरुषो न स्त्री न पण्ढस्तथा नो बालो न युवा न चापि देशमीत्यात्मा यथा ज्ञाम्यते । कर्तव्या करुणा तथा रघुवरेत्यभ्यर्थनायल्पित- स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ५३॥ चेतः कर्म करोति गर्हितमसौ कर्तृत्वमेतद्गतं निक्षिप्यात्मनि मानवो जदृमतिर्भुङ्के कृतं तत्फलम् । भोक्तिृत्वा नाहमधुना कर्तेति बोद्धं तत-- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ५४ ।। पश्यो जाङ्गलिकस्य वानर इव स्वात्मापि यस्य स्थितः कस्तं शास्ति स तिष्ठतु नजतु वा निद्रातु जागर्तु वा । मां दुर्निग्रहमानसं शुभपथेऽवस्थाप्य शाधीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये || पूर्वे यत्र जना ययुः क्षितितले निक्षिप्य देहान्निजां- स्तद्गन्तव्यमवश्यमन्तकपुरं स्वनेति धीरस्ति चेत् । कः कर्म प्रतिपिद्धमाचरतु सा नास्तीति तल्लिप्सया तस्मै प्राञ्जलिरमि दाशरथये श्रीजानकीजानये ।। ५६ ।। १. दशमी वृद्धः २. Sालिको विषयेद्यः