पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कार्ये कार्यमिह त्वया पितृपते साहाच्यमार्य प्रभो मा भूवन्मम शोधनाय विधिभिः क्लेशा भटानां तव । आत्मानं परिवापयेयमिति यत्सर्वेश्वरायाधुना तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ५७ ॥ सप्ताष्टैः कवलैः सुपूरमुदरं प्रादेशमात्रं, वह- न्विप्वग्भ्राम्यति विश्वगर्भ इव यो वित्तार्जनाकाङ्क्षया । सोऽहं संप्रति देशिकस्य कृपया मोहं त्यजन्मुक्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ५८ ॥ नद्यामस्ति विशुद्धमम्बु विपिने नानादलान्यासते सन्त्यङ्घ्री च करौ च किं न सुकरो देवस्य पूजाविधिः । प्राप्या तेन भवाव्धीतीर्णिरलसस्तन्त्राप्यहं श्रेयसे तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ५९॥ एकं नालंमिदं किमुन्नतपदप्राप्त्यै मम प्रायशो यजातोऽस्मि सतां कुले रघुपतौ भक्त्या विशुद्धात्मनाम् । दुग्धस्योपरि शर्करामिव फलं प्राप्तुं ततोऽप्युत्तमं तस्मै पाञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६०॥ देहोऽयं पतितेति बान्धवजनोऽप्याक्रन्दितेति क्रिया सा सोर्ध्वं चलितेति वर्षशतमप्यैतापरस्तादिति । नाहं वेम्नी न किं तु नित्यवदिदं जानन्निवापि स्थित- स्तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ६१ ॥ १. इह कार्य प्रालिवकरणे साहाय्यं कार्यमित्यर्थः. २, “पतिता' इत्यादि भविष्यति खुद. ३. 'ब्याकन्दिता' इति च पाठभेदो दृश्यते. ४. 'ऐता' इति आपूर्व इणु गतौ धातुः. ५. 'नाहं वेद न' इति पुस्तकान्तरे.