पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

एतेनापि यदस्ति पातकमिदं दूरीचिकीर्षन्नहं तमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८९ ॥ इष्टं वार्य वितीर्य धासकवलानिष्टानदत्वा दृढं रज्ज्वाबद्ध्य शिरोधरां च निखिलं दुग्ध्वा पयश्चूषताम् । यो दोषोऽस्ति गवां नृणां स न भवेदस्माकमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये !! ९०॥ यान्सर्वा अपि देवता इति जगत्याह श्रुतिः सूरयो येषामङ्घ्रिरजोभिरङ्घ्रिसलिलान्याहुः पवित्राणि च । भक्तिस्तेषु मम द्विजेषु भवता1दित्याशिषा प्रेषित- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९१ ॥ यस्याचार्यकमस्ति यस्य गरिमा विद्याविशेषग्रहे साक्षादीश्वर एष 2इत्यविशयान्नोपासितव्यः स किम् । प्राप्तव्योऽयमुपासितव्य इति च 3प्रत्युद्भवं काझ्क्षया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९२ ॥ प्रत्युत्थानमथाभिवादनमुमे यत्रागते निर्यतां प्राणानां पुनरागमाय विदितं यूनां न यत्कोटिभिः । एको यस्तदवैति वृद्धमनिशं तं विश्वसानीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९३ ॥ वेश्यावर्तिनि च स्वभर्तरि शुभाचाराहमस्मिति त- द्धार्या वेत्ति यथा तथेन्द्रियगणेऽप्यर्थान्निषिद्धान्गते । १. आशिषा इच्छयेत्यर्थः, अङ्घ्रिरजोभिः सहेत्यर्थः. २. 'इत्यविशया' इत्येव पुस्तकत्रयेऽपि इत्यविशधा' इत्येकपुस्तके. ३. प्रत्युद्भवं प्रतिजननम्.