पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रत्नज्योतिः कनकरजतज्योतिरट्टावलीषु स्त्रीपुंसाङ्गाभरणतरुणज्योतिरत्र प्रदोषे । दीपश्रेणीप्रकटितपटुज्योतिरिन्दोस्त्वदीय- ज्योतिर्योगे भवतु विविधज्योतिषां संनिपातः ।। ७७ ।। तत्र प्रत्यापणमनुगृहं दीपकानां कदम्बे स्तोकं पौराणिक इव निशि व्यञ्जयत्यर्थजातम् । गत्वा प्रामाणिक इव महाव्यञ्जयन्सर्वतोऽर्थ वैलक्ष्यं तं तरलितकरः प्रापयिष्यत्यवश्यम् ।। ७८ ! तस्माद्दङ्गाच्छमनककुभिः प्रस्थितस्यान्तरा ते स्वर्गाकारं नगरमपरं लाटदेशस्य पुण्ड्रम् । दर्श दर्श मनसि परमप्रीतिरापत्स्यते य- न्नानालक्ष्मीरुचिरवपुषां तत्र वासो जनानाम !! लङ्काशङ्कां मनसि दधती तोयराशौ ममज्जा- तीते दृग्भ्यो वसति च पदे हन्त वखोकसाग । पातालं प्राविशदपमदा सापि भोगावती मां दृष्ट्वा रम्यामनुपमतमां वाटपद्रीमभिग्व्याम् ।। ८ ।। मध्येऽस्त्यत्र प्रचुरसुख(प)मो मण्डपोऽत्यन्ततुङ्ग- स्तत्र स्थित्वा चतसृषु दिशास्वीक्षणीयं त्वयेन्द्रो। द्रष्टासि द्राक्श्रियमनुपमामस्य विष्वक्पुरस्य रम्यं ह्येतच्छुचिरुचिचतुर्द्वारचैत्यानुकारम् ।। ८१ ।। अत्यासन्नं भृगुपुरमितो यास्यसि प्रौढदुर्गां दुर्गन्धाशोज्झितमतिसुरैर्भूरि पौरेः परीतम् । भूपीठे मत्सदृशमपरं वर्तते वा न वेति द्रष्टुं रङ्गान्तरमिव समारूढमुञ्चप्रदेशम् ।। ८२ ॥