पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः । तथापि प्रत्यत्रं शरणमुपयातं प्रति विभो- रखण्डो व्यापारो जगति करुणाया विजयते ॥ १७ ॥ प्रेमार्ध वपुषो विलोक्य मिलितं देव्या समं स्वामिनो मौलौ यस्य निशापतिर्नगसुतावेणीनिशामिश्रितः । आस्ते स्वाम्यनुवर्तनार्थमिव तत्कृत्वा वपुः खण्डितं देयादद्वयभावनां स भगवान्देवोऽर्धनारीश्वरः ॥१८॥ इति महाकविश्रीकल्हणप्रणीतमर्धनारीश्वरस्तोत्रम् ।

श्रीकवीन्द्रबहादुरश्रीलल्लादीक्षितविरचितम् आनन्दमन्दिरस्तोत्रम् । वृन्दारकाक्लिकिरीटमणिप्रकाश- नीराजिञ्जिङ्घ्रियुगला कमलायताक्षी । शोणाम्वरावृततनुंर्निजभव्यभूमिः श्रीसंकटाद्य विकटावतु संकटान्नः ॥ १ ॥ संदर्शनामतलसल्ललनाजनाली- पूजासमाजनविभासितभव्यमूर्तिः । तत्पादपद्मवसनां विदुषां नताना श्रीसंकट्य भगवती भविकाय भूयात् ।। २ ।। १. अथ श्रीललाद शिल: १८५९ वैक्रमे (१८०२ शिखान्दे) स्तोत्रम रचितवानिति चरमसम्माते. २.अस्य च स्तोत्रस्यैकमेवेकादश बाल्माकं सुखकाल.