पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। चरणानतदायतशिरःशिरोरुहग्रथितमञ्जीरा । लघु मोचयन्त्यवनता गतमाना लक्षिता सहचरीभिः ।। ९१।। चामीकराङ्गकान्तिः कृतान्धकाराभिसारवेषापि । संस्मृतदयितसमागमजातस्तम्मा जनैर्ज्ञाता ॥ ९५ ।। चिरपरदेशनिवृत्ते दयिते विरहातुरा तन्वी । उषसि स्मृतताम्बूला जहास चाहासयत्तमपि !! १६ ॥ चीनार्द्रचीवरपरिष्वक्तविभक्ताखिलावयवा । रसमग्नेव नताङ्गी नाङ्गीकुरुते मनः कस्य ।। ९७ ।। चुम्बनमसकृद्यूनोर्गवाक्षनिर्विष्टवक्त्रयोर्जयति । प्रविवेशतः प्ररूढे प्रेमलतायाः प्रसूनमिव ।। ९८ ॥ चूर्णप्लुष्टरसज्ञः पद्माक्ष्याः प्रथमवीटिकादाने । उपहस्यते प्रभाते वचने वचने प्रजावत्या ।। ९९ ॥ चेतश्चञ्चलभावं मुञ्च बधानान्तरे धैर्यम् । पिकरवमन्मथडिण्डीघोषकरो याति मधुसमयः ।। १०० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजचितायाम् । इति शतकं परिपूर्ण प्रथमं शृङ्गारकलिकायाम् ॥ १॥ द्वितीयं शतकम्। भोक्तुं प्रतीक्षते त्वां द्विपास्य पञ्चाननः सदने । श्रुत्वा धात्रीवचनं पलायितो गणपतिर्जयति ॥१॥ चैत्रे विगलितपत्रे कुञ्जे परिलमबहुगुञ्जे । आलीषु गण्डपालीलीना पुलकेषु मीनाक्ष्याः ॥ २ ॥ nirma+. १. "प्रविवेश तत्प्ररूढम्' इति युक्तम्,