पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । न कान्ता नो हर्म्याण्यपि रिपुपरीहासजनित-- प्रतीकारस्याद्य प्रमदमुपधातुं पटुतराः ॥ ४६ ।। नेति । प्रतीकारस्तिरस्कारः। निकारो मच्चित्ते नृपतिवर कुन्तीसुतभवः पदं चित्रे धत्ते स्मृतिमुपगतश्चेदनुलवम् तदा लेखाधीशप्रभृतिसुरसंपत्परिभव- प्रचण्डोऽपि प्रायो मम सुखसमूहो गरलति ॥ ४७ ।। निकार इति निकारः स्यात्परिभवे' इति धरणिः । लेखाधीश इन्द्रः । गरलति मगरलमिवान्चरति । श्वेडस्तु गरलं विषम् इत्यमरः ।। विभो दृष्टे तस्मिन्क्रतुवरमहे तस्य तपसः सुतस्य क्षौणीन्द्रेर्य इह धनरत्नार्पणविधिः । कृतः प्रायो जिष्णोरपि न स भवेदेव किमतः परं वाच्यं दुःखं किमिह मम हृत्कृन्तनविधौ ॥ ४८ ॥ विभो इति । ऋतुचरस्य महे उत्सवे । मह उद्धव उत्सवः' इत्यमरः । तपसः सु- तस्य युधिष्ठिरस्य ॥ .. अथ राज्ञ उत्तेजनार्थ खनिश्चितद्यूतकार्यं राजानमनुकूलयितुं राजसूयशोभां त्रयस्त्रिं- शत्पद्यैराह कलिङ्गाः सौराष्ट्रा मगधमरुमत्स्वाधिपतयः परं चौलाः पाण्ड्याः क्रकथशकहूणाङ्गवरटाः । अथान्धाः पौण्ड्राश्च द्रविडवसुधानाः शिबिभवाः प्रतीक्षन्ते धर्मात्मजनयनपातं सकरुणम् ॥ १९ ॥ कलिङ्गा इति । स्पष्टम् ॥ तुरङ्गा मातङ्गा अपि स्थवरा वस्त्रनिचयाः सुवर्णं प्रावाराजिनविविधसत्कम्बलचयाः अनर्धा रत्नौघा अपि वसुमतीपालमृतकै- रुपानीता यल्लानृपतिनयनातिथ्यमभजन् ॥ ५० ॥ तुरङ्गा इति । भुतकैर्भृत्यैः ॥