पुनस्तस्यैवासाधारणान्कतिपयगुणानाह---
न यच्छक्यं दानैर्बहुविधविधानैरसुलभं
तपोभिर्दुष्प्रापं जपयजनपूजादिसहितैः
अलभ्यं धाम स्वं दिशति दयया यः प्रभुरसौ
स्वभक्तानां तस्मात्क इह परिपूज्योऽपरबुधः ॥ ७४ ।।
|
न यच्छक्यमिति । स्पष्टम् ।
स्मृतिं यातः सद्यः शमयति मनोमोहपटलं
हृदि ध्यातो भक्तैर्दलयतितमां दीर्घदुरितम्
वचः प्राप्तो विघ्नानपनयति सर्वास्तनुभृतां
तमीशं हित्वान्यः क इह परिपूज्योऽस्ति जगति ॥ ७५ ॥
|
स्मृतिमिति । स्पष्टम् ॥
इतीदं तद्वाक्यं श्रुतिपुटसुधासेकसदृशं
निपीय प्रेमार्द्रां सुरमनुजसंसत्समभवत् ।
विहायैकं चैद्यं भगवति कृतद्वेषमतुला-
भिमानं संस्पर्धातिशयकलुषीभूतहृद्यम् ।। ७६ ॥
|
इतीति ।चैद्यं शिशुपालम् ।
ततः पार्थः प्रीतिप्रसरविवशः प्रेमपुलका-
चिताङ्गो भीमाथैर्मुदित इह सर्त्विक्परिवृतः ।
शुभे हैमे पीठे स्थितमखिलकान्तं बहुविधै-
र्विधानैरानर्चाखिलविबुधदवन्द्यं यदुवरम् ॥ ७७ ।।
|
ततः इति । प्रीतेः प्रसर आधिक्य तेन विवशः ।।
सदूर्वाश्यास्माकं सरसिजसुगन्धाद्यविविध-
प्रसूनौघनाम्यन्नलिकुलकलध्वानसुभगम्
स्थितं विष्णुकान्तायुतकनकपात्रे भगवतः
पदाम्भोजद्वन्द्वेऽर्पितममलपाद्यं नृपतिना ॥ ७८ ॥
|
सदूर्वेति । श्यामाकविष्णुकान्ताब्जदूर्वाः पाद्यजले क्षिपेत् इति पाद्यरूपकथनपूर्वकं
पाद्यकल्पनमादावुक्तम् ॥
नक गु०१०