काव्यमाला
न दैवविहितं दुःखं ज्वरादि सोढुं शक्यम् , कथं शत्रुकृतं दुःखं सोढव्यमिति चेत्तत्राह-
जनः सर्वः स्वीयं सुकृतमनुभुङ्क्तेऽथ दुरितं
ततो दोषः कस्मिन्सुत वद विधेयः सुमतिना ।
मदीयोऽयं शत्रुर्मम जनितमेतेन सुतरा-
मनिष्टं कष्टं चेत्यहह कुमते विलसितम् || ८८ ।।
|
जन इति । इदं सर्व स्वप्रारब्धमेव नान्यकृतम् । शत्रुणेदं कृतमिति तु मोहविलसितमेवेत्यर्थः ।।
वचो गम्भीरार्थं मधुरतरमुक्तं नृपतिना
कटुत्वं भेजे तद्वृद्धि कलुषिते कौरवपतेः
सितापि द्राक्षातो मधुरसुरसा पित्तविकृते-
ऽतितिक्ता किं न स्याज्ज्वरयुतमनुष्यस्य रसने ।। ८१ ।।
|
वच इति । अपिभिन्नक्रमः । द्राक्षातोऽपि मधुरसुरसा सिता शरत्यर्थः ।।
समोपदेशमसहमानः साधिक्षेपं दुर्योधन आह-
अथैनं गान्धारीसुतशतवरिष्ठोऽरुणदृशा
निरीक्षन्क्षोभेणाकुलितहृदयः क्रूरमवदत्
समर्थः सन्कस्मात्परिभववचास्यानिलिमुखो-
द्गतानि क्षोणीश श्रुतिपथविदाहीन्यभिसहे ।। ९० ।
|
अथेति । स्पष्टम् ॥
तद्वाक्यमनूद्य दूषयति-
सुखं दुःखं दैवोपनतमिति सत्यं तदपि च
प्रबुद्धाः सद्बुद्धिद्रविणबलसाहाय्यत इह ।
बलाज्जित्वा देवं प्रबलमनिवाथै कुमतिभि-
विराजन्ते सर्वोपरि पुरुषधीराः कतिपये ।। ९१ ॥
|
सुखमिति ।स्पष्टम् ॥
त्वया यत्संदिष्टं सरलमतिना ज्ञानमनघं
यतीनामारण्यप्रगुणनिधिभाजा समुचितम्
कथं मादृक्पात्रं भवति जगतीपालकुलजः
समुत्पन्नारातिप्रभवपरितापार्दितमनाः ॥ ९२ ।।
|