मनोदूतम् । |
त्वयेति। सरलमतिनेति साकूतोक्तिः । आरण्यानां वानप्रस्थानां यः प्रगुणविधि- स्तद्भाजाम् ॥ कारणबाहुल्यात्त्वां प्रतीदं दुःखं श्रावितम् , प्रतीकारस्त्वस्मदधीन इत्याह---
पिता वृद्धो मान्यस्त्वमसि मतिमान्कृत्यविदिति |
पितेति । स्पष्टम् ॥
मनु कथं चत्वार एव भीष्मद्रोणादीनां सत्त्वातत्राह- |
गुरुरिति । स्पष्टम् ॥
वचः साधिक्षेपं नृपतिरिति पुत्रस्य मनसा |
वच इति । अधिक्षेपस्तिरस्कारस्तत्सहितम् । अनुनयंप्रकारमाह-तवापीति ।। सहायानेवाह--
अहं भीष्मो द्रोणस्तदनु तनयोऽस्याङ्गनृपतिः |
अहमिति । गुरोस्तनयोऽश्वत्थामा ॥ क्रियन्तां संभारा विविधवसुभाराश्च यजन- क्षितिः सम्य या विविधशुभयूपैः परिवृता ।