पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् ।

समानेतुं पार्थान्विदुरमनुनीयाप्यनुचिते
निदेशे चक्रे स प्रवणमनयाधीनहृदयः ॥ १०२ ॥

अथैतदिति । अनुनीयापीति अपिर्भिन्नक्रमः । अनुचितेऽपि निदेशे यथाकथंचित्प्रवर्ण अनुकूलं चक्रे ।।

स गत्वा पार्थानां सदनमवदद्यत्कुमतिना
कुरूणां नाथेन वहदि निहित छूतविधये
ततः श्रुत्वाहानं विदुरवचनापाण्डुतनयः
स्मितं कृत्वा वाक्यं मितमिदमवोचनिपुणाधीः ।। १०३ ।।

स इति । स्पष्टम् ॥

विभो क्षत्तः सर्वं तव विदितमेवास्ति जगति
प्रकर्षं बुद्धेश्च त्वदधिगतवन्तो वयमिह ।
स राजा लोकानां स्थितिविदतुलप्राज्यधिषण:
कथं द्यूतक्रीडां कलहजननी कन्दलयति ॥ १०४

विभो इति । क्षत्तः हे विदुर । त्वत् त्वत्तः ॥

समाहूतश्चाहं कथय न कथं यामि विमृश-
न्कलेर्ध्यूते वासः सकलजनमेधाधिकलितः ।
तथापि त्वं यन्मे ह्युपदिशसि कार्यं हितविधौ
विधेयं वा नो वा तदिह करणीयं ध्रुवमिह ॥ १०५ ।।

समाहूत इति । आहूतो न निवर्तेत द्यूतादपि रणादपि इत्युक्तेः । द्यूते कले: कलहस्य कलियुगस्य वा घासः सर्वजन विदित इत्यर्थः ।। किंचास्मिन्कार्ये दैवमेव प्रधानम्, तदधीनश्च जनो न स्वाधीनःमतिरुत्पद्यते तादृग्व्यवसायोऽपि तादृशः। सहायास्तादृश एव यादृशी भवितव्यता ॥ इति वाक्यादिति विदुरः प्रत्याह-

तथा पार्थेनोक्तः सदसि विदुरः प्राह मतिमा
न्मयासौ संदिष्टः सुतपरवशः कौरवपतिः ।
अभव्यं भव्यं वा परिणतिशुभं वाप्यशुभकृ-
न जानाति प्रायो व्यपगतविचारो नियतिभाक् ।। १०६ ।।

तथेतिः । अशुभकृदिति कार्यस्य विशेषणम् । नियतिदैवम् । “भाग्यं स्त्री नियतिर्विधिः' इत्यमरः-