पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

क मनोदूतम् । ११.३ अथैनं पप्रच्छ द्रुपदतनया द्यूतसदने नृपः करमाद्धेतोर्बत पणनमेवं समकरोत् । एवं लोकेऽस्मिन्कथय परिदीव्येद्धृतमति- यथा पार्थः स्वार्थाकुशलहृदयो बुद्धिविधुरः ।। १२२ ।। अधेति । स्पटम् ॥ अथो दूतः प्राह प्रश्रितकुलजेऽसौ लव पति- यंदा भीमं चान्यानपि निजमथात्मानमकरोत् । पणद्रव्यं पश्चात्त्वमसि पणितातो नरपतिः सभायामस्यां त्वाहृयति धृतराष्ट्रस्य तनयः ॥ १२३ ॥ अथो इति । स्पटम् ॥ किमात्मानं पूर्व परिपणितवान्मां नु नृपतिः समां गला पृष्ट्वा पुनरिह समायाहि सविधेः । ध्रुवं ज्ञात्वा पश्चादयि नय सभा मामिति तया नियुक्तो दूतॊऽसौ नृपसविधमागात्पुनरपि ।। १२४ ।। किमिति । स्पष्टम् ॥ द्रौपदीवाक्यमाह- अये राजकृष्णा बदति सकलान्यः पुनरियं न राज्ञोऽनीशस्य प्रभवति मयि खत्वमधुना । अनार्य चेत्सर्वैरधिगतमहो दैवहतकै- विनाशः सर्वेषां ध्रुवमपरिहार्यो हि भविता ॥ १२५ अये इति । स्पष्टम् ॥ तदविक्षेपवनः श्रुत्वा क्रुद्धः सन्तुःशासन प्रेषितानित्याह- तथा दूतेनोक्तः सहजमथ दुःशासनमिदं जगादासौ दुर्योधन इह मतेनाङ्गनृपतेः । अये दूतो भीमात्परमिह विभेति त्वमधुना बलादेनां कृष्णामुपनय करिष्यन्ति किममी ।। १२६ ॥ तथेति । अनृपतेः कर्णस्य । मतेन संमतेन ।।