पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

मौदूतम् स तत्र प्रद्युम्नोद्धवहलधरारशिनिजी- असेनाधैर्युक्तो वसति किल यत्र प्रभुरसौ ॥ १५७ ।। सहनमिति । 'सौधोऽस्त्री राजसदनम् इत्यमरः ।। अथ द्वाभ्यां श्रीकृष्णं वर्णयति--- दुकूलं हेमाभं निजकटितटेऽसौ परिदध- त्सुकाञ्च्या रत्नानां निबिडमुपनद्धं यदुपतिः दधानः श्रीवत्सं हृदि सुविलसत्कौस्तुभमणि- महानन्दाम्भोधिनयनपथमायास्यति स ते ॥ १५८ दुकूलमिति । स्पष्टम् ॥ भगवच्चरणचिन्हान्याह --- ध्वजच्छत्राम्भोजाङ्कुशकुलिशसत्कुम्भसुधनु- र्गदाशक्त्यङ्गुष्ठस्थितयवसुचक्रादिलसितौ नखेन्दुज्योत्स्नाभिर्विधुतनिविडध्वान्तनिचये हृदि ध्यातौ भक्तैर्हृदय चरणौ द्रक्ष्यसि हरेः ।। १५९ ॥ ध्वजेति। स्पष्टम् समग्रतदीयावर्णने स्वस्थासामयमाह- यदन्वेषे शेषा प्रभवति मनीषा न यमिना- मुपश्लोके यस्य श्रुतिरपि च मूकेव भवति । तदीयान्यङ्गानि स्फुटमिह मनोज्ञानि सकला- न्यहं वक्तुं शक्ता कथमिव भवेयं जडमतिः ॥ १६० ॥ यदन्वेषः इति । स्पष्टम् ॥ अथ स्वसंदेशकवानप्रकारमाह-- निपत्य त्वं श्रीमचरणकमलाधः सुभग हृ न्मदीयं संदेशे कथय कथयाम्यद्य सकलम् । न चानन्दाम्भोधौ हरिचरणवीक्षामृतमये निमग्नं भूत्वा मे कथितमखिलं विस्मर मनः ॥ १६१ ॥ निपत्येति । स्पष्टम् ॥