पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला राज्ञा विमृश्य गुणिनो गुरुभावभक्तिं व्यक्ताक्षरक्रमवतीमपि राजपुत्रिम् । दृष्ट्वा व्यपाठयदतिप्रयतः कवीन्द्रः स्तोकैर्दिनैः शशिकला विदुषी बभूव ॥२०॥ सा प्राकृतानि विमलानि च संस्कृतानि शास्त्राण्यधीत्य किल चन्द्रकला सुशीला श्रीविह्लणं निजगुरुं प्रणिपत्य साक्षा- त्तं हर्षयां नृपतिमास सरस्वतीं च ।॥२१ तस्या गृहे प्रवरकुङ्कुमपुष्पवासि- कर्पूरगौरसरसागरुचन्दनाढ्ये । शृङ्गारसारगहनं किल कामशास्त्र- मध्यापयत्यमलचन्द्रकला कदाचित् ॥ २२ विज्ञातमन्मथकला सरमाणविद्धा तस्यान्यजन्मरमणी नरनाथपुत्री। भाव्यर्थभावितमनोभवतुल्यकान्ता कान्ते रसान्विदधति स्म दृशोर्विकारान् ॥ २३ ॥ प्रेमादरात्तरलितेन विलोचनेन वक्रेण चारुहसितेन सुधाधरेण । १., एतत्पूर्वमियापाठोऽपरपुस्तकेऽधिक उपलभ्यते----- 'सेनापतिः स्वयमभाषत वीरसिंह हे नार्यक त्वरय सांप्रतमेव रम्यम् । सप्तावनि सितगृहं सपरिच्छदं वै अध्यापनाय च शशाङ्ककलार्थमस्ति । श्रुत्वा तदेति सुकृतं किल तत्कृतेन भोज्यानि तत्र वसनानि तथासनानि । यानानि कानि विविधा वरमुख्यसख्यो यत्प्रार्थितं स्वभुजसंनिहितं च चक्रे ज्ञात्वेति वीरनृपतिः स्वमुतां करेण धृत्वा कवेरथ समर्प्य शिरो ननाम । भूयः पुरोहितमथ स्वजनो न वा सर्वे भवन्तु सुखिनो हिमवाससश्च ।' २. एतत्पूर्व मियान्पाठोऽपरपुस्तकेऽधिक उपलभ्यते-- 'इत्थं विलोक्य सुकविः पटती सुबालामन्तःपुरे जवनिकान्तरसंस्थितां ताम् । भारज्वराकुलितमानस एक्सूचे मत्वात्मनः सुसदृशी कविनां खभावः ।।