पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

बिह्वणकाव्यम् ईषद्विजृम्भितकुचद्वितयेन बालो विद्वांसमाशु वशिनं च वशीचकार ।। २४ श्रीपद्मपत्रनयनां वरपद्महस्तां पद्मप्रकृष्टचरणां शुचिपद्मगन्धां तां पद्मिनीमिव सुपद्मनिकेतनां च मेने कविः शशिकलामिव कामवल्लीम् ॥ २५ ॥ सा प्राह तं कविमवेक्ष्य मनोऽनुरागं खामिन्द्वयं भवति सर्वजनानुशान्त्यै । तत्त्वं शिवस्य शिवदायि च कामतत्त्वं त्वं संप्रति स्मरगुरुः स्मरयोग्यमत्र ॥ २६ ॥ इत्युक्त एव विजने स विचार्य सर्वं गान्धर्वराजविधिना जगृहेऽथ पाणिम् । कामी युवा स्मरकलाकुशला च बाला दैवात्तयोरघटितं घटितं बभूव ॥ २७ ॥ सा कामशास्त्रविधिना किल कामकेली- लीलाविलासनिलयं चकमे कवीशम् । अन्योन्यनूतनसुयौवनमोहितां च वाक्यैः सुधारससमैः स ररञ्ज बालाम् ॥ २८ ॥ राजप्रियोऽपि विविधागमपारगोऽपि भुङ्क्ते स गूढचरितो नरराजपुत्रीम् । जातं सुजन्म विफलं भुवने नलिन्या दृष्टं यया न विसलं तुहिनांशुबिम्बम् । यावच्छ्रुतं सुवचनं सुकवेस्वयेत्थं किंचिद्विहस्य तुहिनांशुकला बभाषे ।। हृष्टानि कोकमिथुनानि भवन्ति यैश्च सूर्यांशुभिर्जगदिदं निखिलार्थमेति । संपूर्णतापि शेशिनश्च हि निष्फलैव दृष्टा यया न नलिनी परिपूर्णरूपा ।। इत्थं निशम्य सुकविः सुवचोऽबलायाः प्रोवाच कामवशगः शृणु चन्द्रलेखे मध्येऽत्र किं जवनिका कुरुषे तदा वा हारीकुरुष्व तदिदं दयितेन्तरे नौ ।। तस्याज्ञया जवनिकां शिथिलीविधाय वक्रं विलोक्य सुकनयनाभिरामम् । तस्थौ प्रणम्य शिरसा दधती कठाक्षस्नेहालसाद्रनयनैः कटिदत्तहस्ता ॥