पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तद्धामसूचितमनगरसप्रसाद- चाटूक्तितत्क्षणवियोगसुदुःसहं च । प्रेम प्रबद्धमितरेतरमप्रमेयं कामं तयोरतनुमेयतरं बभूव ॥ ४४ ॥ उत्तुङ्गपीवरघनस्तनमण्डनेन बिम्बाधरेण रमणद्विजखण्डितेन । अङ्गेन कान्तपरिदत्तनखव्रणेन शुद्धान्तरक्षिभिरलक्षि परोपमुक्ता ॥ ४५ ॥ आः कस्य सांप्रतमहो कुपितो विधाता कृत्वेति ते हृदि ततः प्रणिपत्य भूपम् । देवाभयं शशिकला पुरुषोपभुक्ता सत्याय ते स गुरुरीक्षित एव नूनम् ॥ ४६॥ रक्षाजनेन कविनामनिवेदितेन भूयो बभूव किल दोलितचित्तवृत्तिः । किं सत्यमस्ति कथितं वितथं तु किंवा जीवप्रियं द्वितयमेव कविः सुता मे ॥ ४७॥ विद्यानवप्रयतमन्मथचाटुवाक्यैः कन्दर्पकेलिकुपितां नरराजपुत्रीम् । पुष्पेषुबाणमधुरीकृतमानसोऽयं कामी प्रसादयति चन्द्रकलां यथेष्टम् ॥ ४८.।। यावत्प्रसादललितां नृप आहृताङ्क त्वं का प्रसादयसि दुष्टचरित्रभावैः. श्रुत्वेति लक्षचरितो नृप चौर्यगुत्यै कामी दृशं निजकरेण ममर्द शीघ्रम् ॥ ४९ ॥ उत्थाय संमुखगतोऽक्षिशिरोवगुप्तं तं प्राह धीरमनसा नृपतिः सचक्षुः ।