पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला यदि भवति मतिर्या स्वान्तकाले गतिः सा यदि भवति वचो मे सत्यमस्तीति धर्मम् । मनसि वचसि काये यद्यहं जीवितं सा तदिह मु':"रामे चन्द्रलेखा प्रियास्तु ॥ १३६ इत्थं विज्ञाप्य देवेभ्यस्तूष्णीं तस्थौ कवीश्वरः । अत्रान्तरे चन्द्रलेखा चिन्तां चक्रे तदोचिताम् ॥ १३७ ।। दृष्ट्वा का शशिकला दृढपाशबद्धं तन्नीयमानमनुगैरवनीश्वरस्य । कर्तव्यमस्ति मम किं करवाणि किं वा हा हा चकार मनसेति विचारयन्ती ॥१३८॥ पुत्रस्तदेव जनकं परितोषयेद्यो मित्रं तदेव न जहाति सुखेऽतिदुःखे । भर्तारमेव परिगच्छति या तु नारी ह्येतत्रयं निगदितं स्मृतिशास्त्रसारन् ॥ १३९ ।। विद्युत्प्रगच्छति समं सहसाम्बुदेन चन्द्रं यथा कुमुदिनी वरकौमुदी च । प्राणेश्वरं समनुगच्छति वंशजा स्त्री वेदा वदन्ति इति से दृढनिश्चयोऽस्ति ॥ १४ ॥ इत्थं विचार्य हृदये मरणाय बुद्धि मुक्त्वा सुहर्म्यमवरुह्य सुसप्तभूमिम् । बद्धा दृढं नृपसुता परिधानवस्त्रं तस्थौ मनो निजगुरोश्च निराशयन्ती ॥ १४१ ॥ एतस्मिन्नन्तरे नार्यस्तदा तद्भुवमागताः । पराक्षेपेण धावन्त्यो कुर्वन्त्यश्चाश्रुपातनम् ।। १४२ ॥ सुतारान्तःपुरे ताश्च प्रविष्टाः साश्रुलोचनाः । विह्वला विश्वसत्यश्च त्राहि त्राहि पुनः युनः ।। १४३ ॥