नो जानासि तवाङ्गसङ्गिचरितं ज्ञातुं यदिच्छास्ति चे -
त्सायं क्लेशमुपाय्य भर्तृसदनादागच्छ होऽस्मद्गृहम् ।।
(इति प्रतिवेशिनी।).
तत्तद्वचनचातुर्यभावं दर्शनमात्रतः।
जानाति परचित्तस्य विशेषज्ञा तदा यथा ॥ १४ ॥
नाथेनाधरखण्डनं निशि कृतं ज्ञातुं न शक्ता मुदा
प्रातर्यातृषु मध्यगातिचतुरा भिक्षोः शिशोर्भावनम् ।
ज्ञात्वा सान्तरलज्जितातिसहसा गच्छेति मुक्ताकणा-
स्तस्यै चार्पति कण्ठलग्नसगुणान्सा ते कथं यास्यति ।।
(इति परचित्तविशेषज्ञा ।)
फलपुष्पादिसंकेतं कथंचिदपि यत्कृतम् ।
तज्जानाति च या चेष्टासंकेतकोविदा यथा ।। १५ ।।
कर्पूरं सितपर्णचूर्णसहितं सुश्वेतपूगीफलं
क्षिप्त्वा कञ्जकरण्डके स्मितहरिर्दूतीकरे न्यस्तवान् ।
सा लक्ष्मी समुपेक्ष्य सस्मितमुखी तस्याः पुरं स्थापय-
न्पद्मान्तःस्मितपूर्वकं मृगमदं दत्त्वा पुनः प्रेषिता ।।
(इति चेष्टासंकेतकोविदा ।)
वदन्ती मधुरं मन्दं वसनादानदानतः ।
न्ऱुरत्नमद्य दृष्टं में त्वद्योग्यो रजकी यथा ॥ १६ ॥
रे रे रे रजकि त्वयाद्य वसनं धौतं न किंचित्कथं
सत्यं स्वामिनि कारणं शृणु तथा वक्तुं न शक्तास्म्यहम् ।
यं दृष्ट्वा प्रमदा भवन्ति विमदाः सोऽस्मिन्पुरे वर्तते
त्वद्योग्यः कियती त्वहं युवतयः सर्वाश्च तन्मोहिताः ।।
(इति रजकी॥
•••••••••••••••••••••••••••••••••••••••• ।
••••••••••••••••••••••••••••••सौचिकी यथा ॥१७॥
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३५
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
दूतीकर्मप्रकाशः ।