श्रीधनदराजकविविरचितम्
शतकत्रयम् ।
शृङ्गारधनदाभिधानं प्रथमं शतकम् ।
सिद्धार्थी कनकाक्षरेण कलिता यस्य प्रशस्तिः स्वयं
देवी शैलसुता महेशरजतप्रस्फारपट्टेऽभवत् ।
लक्ष्मौर्वा मुरवैरितन्मरकतप्रासादवक्षःस्थिरा
दाम्पत्यं रतिकामयोस्तदक्तादानन्दजीवास्पदम् ॥ १
मेरुर्मानितया धनैर्धनपतिर्वाचा च वाचस्पति-
र्भॊगेनापि पुरंदरः शुचितया दानेन चिन्तामणिः ।
गाम्भीर्येण महोदधिः करुणया कोऽपीह तीर्थंकरः
श्रीमालो धनदः कृती वितनुते शृङ्गारपूर्वं शतम् ॥ २ ॥
जात्या दोषपराङ्मुखाः परगुणप्रीत्या कृति सज्जनाः
पश्यन्तु प्रतिवासरं निजधिया संपादयन्तो कियान् ।
यज्जानन्ति वदन्तु तत्खलुः खला नाभ्यर्थना तेषु य-
द्कैस्तावदनादृते दिनमणौ प्राप्तोऽर्थलाभः कियान् ॥ ३ ॥
आरब्धा शतकत्रयी पृथगिह प्रायः स्थितिर्मादृशां
शान्ते वर्त्मनि कर्मणां नयविदा तोषो भवेज्जातुचित् ।
शृङ्गारः प्रथमं तथा रसवतां हेतुः प्रवृत्तौ यतो
बालानां कटुकौषधप्रणयने देयः पुरस्ताद्गुडः ॥ ४ ॥
माधुर्यं स्मितमीक्षितं चपलता यूनोः कथासंभ्रमो
व्याजेन श्रुतिमुक्तिमालिवचने स्वाभाविको वक्रिमा ।
आलत्यं गतिचातुरी मनसिजो रत्या समं खेलनीं
बालायाः करतालिकामुपगतं सख्योरिदानीं मनः ॥ ५॥
१. इदं शतकत्रयसमनेन कविवरेण वैक्रमे १४९० (A. D. 1434) संवत्सरे
प्रण्यनायीति 'वर्षे व्योमाङ्कवेदक्षितिपरिकलिते विक्रमाम्भोजबन्धोः' इति द्वितीयशत- कसमाप्तिपद्यतोऽवबुध्यते पुस्तकं चास्य ग्रन्थस्यास्माभिरेकमेव २७ पत्रात्मकमस्माकं सरखतीसदनत उपलब्धम्