स्निग्धे ताशि नौचिती परुषता दृष्टेऽवहित्था कथं
धीरं सस्मितमालपत्यनुदिनं निर्हास्यमास्यं कुतः ।
निद्राणं तनुरोम तिष्ठति पुरा तत्संनिधावादरा-
सख्यो मानभुदाहरन्तु कलहे बालोद्यमः कीदृशः ॥ १९ ॥
धैर्यं मुञ्च कुरुष्व मानममलं तद्गौरवस्थास्पदं
मानादेव गुणोदयः किमधिकं दासायते वल्लभः ।
उक्ते धेहि मनो निशम्य सकलं तूक्ता वयस्यास्तया
दत्तं नाम मनोऽन्यतो न विदितं दत्तं कथं दीयते ॥ २० ॥
यामः पूर्वनिशोपभोगकथया नीतोऽपरो निद्रया
नीता कोऽपि वयस्यया सह रताम्योनापदेशक्षणात् ।
स्नानाकल्पविकल्पकल्पनविधेरन्यो दिनस्य क्षणा-
त्तल्पे वासकसज्जया युगसमो यामो निशायाः कृतः ॥ २१ ॥
आकल्पं विरचय्य तल्पममलं सज्जं विधायादरा-
दालीभिः कथया कयापि समयं चारान्बहून्पृच्छती ।
द्वारे निश्चललोचना परपदध्वाने तमेवागतं
मन्वाना निजमन्दिरे रसवशाद्वन्यस्य बाला वसेत् ॥ २२ ॥
गच्छ त्वं सखि वाचिकं लघुपदं नीत्वा नयैनं शठं
कुत्रास्ते तु वदन्निजेन सुहृदा केनापि तत्तद्वचः ।
गच्छामो यदि लाघवं ननु परा हासाथ दीर्घाननाः
का वा गौरवलाघवादिकलना वश्ये तथा बल्लभे ॥ २३ ॥
आकल्पो मलिनो भविष्यति मनाग्भूयोऽधुना धीयते
भुक्तं तल्पमज्झितं च सहसा सख्यः परिस्तीर्यताम् ।
संकल्पेन विधाय संगमसुखं जातावबोधा पुन-
र्धन्यो वासकसज्जया प्रतिपदं प्राणाधिकं स्मर्यते ॥ २४ ॥
पत्राली चिरलालिता करतलस्पर्शे कपोलाद्गता
लुप्तो रागपरिग्रहोऽधरतले तद्वाचिकालापतः ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४२
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
काव्यमाला ।