मुन्धे बोधय सारिकामियमदः प्रेमास्पदं सीदति
प्रीत्या पाठय चाटु पाठकवटुं वां पीठमर्दं शुकम् ।
आलीर्हासरसोचिताः सितलवेनाभाषयेथा इमा
दृष्टेनानुगृहाण वल्लभामिभ पादानतं भीतवत् ॥ ५८ ॥
तादृक्कण्टकलम्पटापि करभी मा हास्यतां दूरतो,
नाङ्गाराशनगर्विता सुनयना निन्द्या चकोरी पुनः ।
उद्यत्कण्ठकदन्तुरेऽतिकठिने पङ्काकुले पिच्छिले
निद्रामो यदि संयतास्तदपरं नानन्दकन्दास्पदम् ।। ५९ ।।
गुल्फग्रन्थिमणिप्रभावबलतः पादाङ्गदं प्रेयस-
श्चूडारत्नपदं मदात्समगमन्मानापनोदादरात् ।
मागान्मन्त्रपदाददादपि पदं कार्याकुलोऽपि प्रियः
कर्णाशोकदनाहतचिरतरं मान समूलं जहौ । ६० ।।
कातर्यं तु न कार्मणं न न परं दम्भो न कि योषितां
यच्चित्ता तनुचापलं मधुविधुद्वेषस्तनुत्वं तनोः ।
अस्माकं सखि पश्य संप्रति तनू रोमापि वक्रायते
सद्यः प्रोषितनाथयाभिनवया पान्थस्त्रियो हासिताः ॥ ३१ ॥
द्वारे नूपुरमुच्चगोपुरमुखे काञ्ची रणत्कारिणीं
हारो द्वारचतुःपथे पथि परे कर्णोत्पलं भृङ्गमत् ।
प्रेयो मन्दिरमित्यवत्य मुमुचे तन्व्या शिरोभूषणं
व्यालोके तु परस्परं विगलिता नीवी स्वयं बन्धनात् ।। ६२ ।।
पूर्वं यत्र विशेषकक्षितिरिति प्रायः कपोलस्थली
चक्षुः सिञ्चति जागरूकमसकृद्भूयोऽञ्जसा असा तद्भवेत् ।
वाप्यक्षारतया तयाभवादियं पाण्डश्चिरायोपरा
तन्मन्ये मकरीनिकेतनधिया तत्रैव सिन्धुः कृतः ॥ ६३ ॥
हासः कोऽपि महाशुचिः स्थितिमत्ता प्रेयःसमक्षं क्षणा-
द्वारंवारमुपैति तस्य विरहे दृष्टः कदाचिन्न यः ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४८
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
काव्यमाला ।