पृच्छामो प्रातरो वः सकलजनमनोरञ्जनोपायमेकं
ब्रूध्वं निधोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य
सर्वेषां भो परोक्षे वद गुणनिकर दोषलेशेऽपि मूढो
दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण ॥ ४१ ॥
अहंकारारिप्सोः परगुणविवक्षोश्च कलिता
भिदा सिद्धिं लिप्सोरुचितमुदयं कार्यमखिलम्
चिरेणैकः कार्यं घटयति परं दुःखबहुलं
सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् ॥ ४२ ॥
धातर्धातरकारि चेतसि दया नाकारि किं तद्धनं
तच्चेन्निर्मितमाहता न किमियं तेषां विवेको न वा ।
सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः
प्रायः सर्वगुणोपपादनविधौ वैमुख्यमाप्तं कुतः ॥ १३ ॥
हूतावज्ञातृशङ्को दशरथनृपतेर्धव्लीयाधलीलानुरागो
बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् ।
कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य
भूयो भूयः प्रतिज्ञास्मरणममिभवायैव रामस्य जाने ॥ १४ ॥
निद्रामौनपरोज्झित न तमसा क्रान्तं जरायां पर
नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु ।
शास्त्रं लोचनमेकमेव सफलं स्यादञ्जनं यत्सतां
गूढार्थ निधिमीक्षितुं कृतधियामुत्साहवर्धकम् ॥ ४५ ॥
छान्यार्जवमार्जवे च कपटो विष्टेऽच मैत्री तथा
मित्रे द्वेषणता हटेतिमृदुता स्वान्मार्दवे वा हठ;
सुस्निग्धे परुषत्वमेव पुरुषे सेहो न वा स्वच्छता
स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६ ॥
दोषावेक्षणाचातुरी परधनव्यर्थव्ययोत्साहधी-
र्नीतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६१
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
नीतिधनदशतकम् ।