पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
नीतिधनदशतकम् ।

 पातो वा दूरतो वा दरणमनुतटं निम्नगानां विलोक्य
 दोषो जायेत वेषः क्वचिदपि विषये वस्तुजातिस्वभावात् ॥ ६७ ।।
 यात्रामात्रप्रकारे प्रसरति विषयव्यापिनीनामशङ्का
 वायोरेकः पुरस्तान्नरपतिकुलजैः शिक्षणीयो गणोऽसौ ।
 स्वार्थभ्रंशानपेक्षापरहितनिरतिः श्रान्तसंवाहनं य-
 द्विश्वं तेनोपदिष्टा जंगति तु मरुता कार्यमिष्टं परस्याः ॥ ६८ ॥
 नीचत्वे निम्नगाः स्युर्जगदुधकृतयेचौषधिः काननत्वे
 शैलत्वं राजदुर्ग लवणसमुदयः स्वादसीमोवरत्वे
 शालेयं स्वात्समत्वे स्थलतरमवने राजधानी मनोज्ञा
 तत्किं सर्वसहायाः परहितनिरतं यन्न जातं विशेषात् ॥ ६९ ।।
 नीचैरुच्चैः पदव्या घटयति नितरामुच्चमत्यन्तनीचं
 ज्ञात्वा भूयः प्रयोगं रचयति नयतो तोषमन्यस्य कुर्वन्
 रिक्तं पूर्णं वितन्वन्समुदयतितरां रेचयन्पूर्णमन्तः
 कुम्भी यत्रोपजीवी परपरचलनोपायविज्ञो नरेशः ॥ ७० ॥
 बध्नात्येकं विचार्य स्वगुणघटनया मालयान्यन्नियुके
 एकत्रैवोपविश्य भ्रमयति सकुलं मण्डलं गोचरेण ।
 एक कृत्वा प्रधान दृढमधिकतरायामयुक्त मनखी
 तस्मिन्नारोप्य शेषं प्रकटयति धनं यत्रजीवींच भूपः ।। ७१।।
 नानाकार्योपयुक्तं लघुमपि च गुरुं तुल्यमानं गृहीत्वा
 ज्ञातुं वस्तुस्वरूपं. बहुषु परिगतेष्वेकमेकं क्रममाः ।
 संबोध्य खस्थचित्तः समुचितविहितत्वार्थलामो विचारा-
 दुन्यच्चान्यद्ग्रहीतुं नियमयति धनं भूमिनाथो वणिग्वत् ।। ७२ ॥
 भिन्नं संदधदावरेण सहसा भिन्दन्परं संहतं
 वृद्धं साम्यमुपानयंश्च बहुना हीनं गुणैर्वर्धयन् ।
 योगे कस्य च नोपपाद्य दृढतां रक्षन्दशामग्रतो
 गाढं पीडयति प्रधानमसकृत्कश्चित्कुविन्दो यथा ॥ ७३ ॥