पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
नीतिधनदशतकम् ।

 तेजः सिद्धमनेकधास्थितमधिक्षेप्तुं न शक्यं परैः
 शक्तिः काचन कौतुकाय सुधियां यस्यातिभूमीयते ॥ ८० ।।
 दोषारम्भककौतुकेन शशिनो जातं महल्लाञ्छनं
 तच्चेन्मण्डलमण्डितेति विमले व्यक्तं पुरो दृश्यते।
 तस्मादुज्वलचारुतारचरितेनैकान्ततो मुच्यतां
 दोषाशङ्कि चरित्रमुज्वलतरं नूनं यशश्चिन्वता ।। ८१ ॥
 हासे वाचि निरीक्षणेऽपि सरसे लीलायिते वा मनो
 मा धेहि प्रसभं निराकुरुतरां यान्ते कदाचिद्यदि ।
 भूमिः कैतवकर्मणोः धनमनु प्रेमोपपत्तिः स्थिरा
 मत्तत्वैकजनिर्विना मदिरया वेश्या न वश्या नृणाम् ।। ८२ ।।
 वित्तं वीक्ष्यैव हासो बहुविधविनयो वञ्चनायोपयुक्तो
 मोहस्यैवोपपत्त्यै दृढमृदुलभुजाश्लेषशिक्षोपदेशः ।
 शीलभ्रंशाय पुंसां रतविधिषु गलद्रीडितं कैतवेन
 प्रायो मूर्च्छास्मरार्तौ मनसि च कठिने मूर्च्छनायेतरस्य ॥८३॥
 छन्ने ये कामयन्ते मलकुलजनुषः पापधीदत्तचित्ता-
 चौयापायाप्तवित्ता अपि जडमतयोऽहंकृताः पण्डकाश्च
 सेव्याः सख्यो हि यासां किल धनविरहे वारणीया जनन्या
 धर्मो यासां निजोऽयं कथमिह रमते वंशजः पुण्यजन्मा1८४॥
 द्यूते वेश्यासु मद्ये नयत यदि सुखं बाञ्छसि भ्रातरेकं
 वित्ताधीनस्त्रिवर्गो भवति न तदिहाधीनचित्ते कदाचित्
 चौर्यस्यैकास्पदं तत्त्रितयमपि मृषावादशब्दाभिधानं
 बन्धुद्रोहैकसीमा विविधनयकथाद्वेषिणी पद्धतिः सा ।। ८५ ॥
 यागे सौरभनिर्भरः परपुरप्रोषे वला भूभुजा-
 माकशेति ततः परं च मरुता धूमः श्रिया भुज्यते ।
 माने प्रेयसि संमुखे सुवदनानेबाम्बु धत्ते श्रियं
 किं वा बाष्पविनिर्गमोऽतिमधुरः स्यादृन्निजामध्वरे(४)॥ ८६ ।।