चन्द्रः पूर्णकला फणी कृतफणः शाखी असूनाञ्चितः
शूरः संगरसंमुखोऽध्वरमुखे विप्रः पुरः पूजितः ।
शुश्रूषाकृतगौरवोऽपि कथको बाजी तु पर्याणितो
निद्राणो गजनायको बहुरसः प्रेक्षावतां जायते ।। ८७ ॥
यदि सदसि पुरस्ताद्वक्ति वाचस्पतिः किं
बहुबुधकविमध्ये वर्तमानस्तदेतत् ।
स्फुटतरमनुकूलं वान (वित्रं तु वृद्ध-
श्रवसि कृतकथाया जायते तत्वभावात् ।। ८८ ॥
विश्वस्ते खोपकारिभावितथवचने शुद्धबुद्धिप्रकारे
शूरे धर्मप्रमाणे तपसि छत्तमत्तौ वेदविद्याप्रमाणे
सद्यः कामोपपत्तौ परयुवतिकथा पापवृद्ध्यैव भीते
मास्तां पापं कदाचित्परहितनिरतं भक्तिनम्रे खभावात् ।। ८९ ॥
दूरं कृत्वापमानं प्रभुगुणगणनायेशलो भानमग्रे
तिष्ठन्तं संविभाव्य प्रकटयति निजं साधयत्कार्यमेकः !
खार्थग्रंशेन किंचित्फलमधिकमदो मानिनो मानपोषे
काले मानोऽपि कार्यः सपदि परिसवं चिन्त्यमाने परेण ॥९०॥
लक्ष्मीं नाभेयनामाजयमजितमुनिः सद्भवं संभवोऽसा-
वानन्दं सोऽभिनन्दो मतिमपि सुमतिः सद्मपद्मप्रभुः सत् ।
पापापायं सुपार्श्वो वितरतु सततं धामचन्द्रप्रभृश्च
प्रत्यूहस्तान्तरायं सुविधिजिनपतिः शीतलः शान्तभावम् ।।९१।।
श्रेयान्निःश्रेयसानां विधिमथ नितरां वासुपूज्यश्च पूजां
वैमल्यं चेतसोऽन्तर्मुनिरपि विमलोऽनन्तनायो यशोऽपि ।
धर्मो धर्मोत्तमो वा धनमधिधनदं शान्तिनाथः सुसार्थे
काव्यं श्रीकुन्थुनायो रिपुमथनमरो मल्लिनाथः कथास्ताः॥९२॥
सुव्रतो व्रतसंपत्तिं नमिलेमीनवाभये ।
पार्श्वमायः सुपार्श्वत्वं महावीरो बली चलम् ॥ ९३ ॥
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६८
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
काव्यमाला ।