पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
वैराग्यधनदशतकम् ।

 आकाशश्मश्रुमध्ये पलितकवलितं भाखता साधकेन
 छिन्नं सजायमानं प्रसरति परितो रोमतारागणश्रीः ॥ ५६ ॥
 अहि श्रान्तः समन्ताजनिमृतिगणितैर्जागरिष्यन्निशायां
 प्रातः प्रारभ्यमौनव्रतगमितदिनान्भिक्षयन्बूकबन्धून् ।
 सायं शेते कृतान्तो दिनकरशशभृल्लोचने मौलयित्वा
 मौनव्याजेन विप्रा मुषितविधिममुं, निन्दयन्ति स्वयं तम् || ५७ ॥
 सूक्ष्मं सूक्ष्मं विचिन्वन्नुचितमनुचित कर्म जन्तोरनिद्रो
 मन्ये वृद्धः कृतान्तो घनतिमिररुजाक्रान्तनेत्रप्रकाशः ।
 एकं चक्षुर्निमील्याहनि तु शशधरं पश्यति प्रेतजातं
 रात्रावर्कं कथंचित्कलयति सकलं विश्ववस्तुप्रमोदात् ।। ५८ ॥
 भूयो भूयोऽपि पश्यन्भ्रुकुटिविषमितप्रेक्षणद्वन्द्वमारा-
 त्सावज्ञं यान्तमग्रे समुदितविमलब्रह्मतत्वावबोधम् ।
 तेजोभूम्ना यदस्या स्फुटदिदमधुना दृश्यतेऽन्तः सकाचं
 चन्द्रं प्रातर्द्वितीयं सदरुणमसकृज्जायते सूर्यनामा ॥ ५९ ॥
 गर्वः कस्माद्धतास्ते रणभुवि रिपवः साधु के ते मनुष्या
 विग्धिक्कर्मैव तेषां क्षणविजयसुखं कर्म तादृक्तवापि ।
 साधो कर्मैव किं तन्नियतिरिति यया सर्वमेतन्निबद्धं
 तस्य च्छेदे किमस्त्रं परिचितिरमलबाणो मुक्तिहेतोः ॥ ६० ॥
 कान्ता काचित्कुलीना स्मितसरसमुखी भीतिहेतुः पिशाची
 पुत्रस्नेहोपगूढं दवदहनधिया दूरतो मोचनीयम् ।
 बन्धुर्यनापदन्धुः सुहृदपि नितरां धातुको दस्युवर्गः,
 प्राप्तास्तत्रापवर्गाध्वनि पुनरधुना जन्मविच्छित्तिहेतौ ॥ ११ ॥
 पञ्चापीमे मदीयाः प्रतिजनि सहजाः पञ्चभूतानि तेभ्यो
 दीयन्ते तद्विभज्य प्रतिभुवि मनसि प्रापितोऽसौ सुधांशुः ।
 आत्मन्साक्षी त्वमेकः पुनरपि यदि मामाश्रयन्ते कदाचि-
 त्कर्माकर्तुं क्षम्रोऽहं विषयपरिचयो नष्ट एव खभावात् ।। ६२ ।।