पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
वैराग्यधनदशतकम् ।

 माता वा मातुलो वा प्रभुरषि जनको बान्धवो वा सुहृद्वा
 विद्याभ्यासे सतीर्थ्यरतपसि सहचरा गेहिनी वा सुता वा ।
 प्रेमस्थानानि तुल्या गुरुपदपदवीरेणुनानातु(?)नामी
 यद्वाङ्मात्रेण दृष्टिर्भवति नबनवा ब्रह्मपर्यन्तमार्गा ।। ८३ ॥
 वेदाः शास्त्राणि गाथा मुनिभिरभिहितानीतिहासाः पुराणा-
 न्यास्यश्वासप्रवृत्तेर्मलिनतररुचीनीतिनेहामहेद्या ।
 यद्रष्टुं नैव करमादपि सहजशुचिस्फीतसारं विशुद्धं
 तद्ब्रह्मप्रीतिहेतोरचललयलवप्राप्तबोधं भजामः ।। ८४ ॥
 गार्हस्थ्यं नाम धर्मो भवति यदि महान्बुद्धिरित्याद्रियध्वे
 जातामेतां विवेकात्परिणयत सुखं शान्तिकामां कुमारीम् ।
 देहे गेहे चरन्तो जनयत च सुतं ज्ञानमानन्दकन्दं
 सद्यः संतोषयन्तो मरुदतिथिवरात्पञ्चपञ्चाध्वनीनान् ।। ८५ ॥
 निर्वाणं गन्तुकामस्त्वमसि यदि तदा मुञ्च कर्माणि दूरा-
 देकं तद्ब्रह्म चित्ते कुरु सपदि महामोहसंदोहहारि ।
 बोधे यस्यास्य सद्यो विषयविषधरोनैति पार्श्व कदाचि-
 न्नैवं नैव प्रभावं प्रकटयति निजं सत्कृतं दुष्कृतं च ।। ८६ ॥
 चक्षुः किंचिद्विवक्षु त्वमसि न विदितं कैतवं जीवबन्धो-
 जीवस्यैतस्य गर्ने दुरितमनुभवन्मोचितोऽसौ मयैव ।
 केनोपायेन साधो विषयसुखभरात्स्वं निवार्य प्रयत्ना-
 दन्तर्गामीह भूत्वा सममपि मनसा ब्रह्म दृष्टं कदाचित् ॥ ८७ ।।
 शब्दातीतं यदन्तः किमपि न विषयः स्पर्शनस्यापि कश्चि-
 न्निर्गन्धेनैव नासा प्रभवति रसनाखादहीने किमर्था ।
 अन्तर्गामीह भूत्वा तदमलममलानन्दसंदोहहेतुं
 पश्यामि ब्रह्मजिह्मेतरमुदितभवखादवैरस्थमञ्चत् ।। ८८ ॥
 योगश्चेतोनिरोधे परिचितपरमब्रह्मकर्मेति मन्ये
 तस्योपायाः कियन्तो यमनियममुखान्यष्ट ते वर्णनीयाः
 येषामभ्यासयोगे समुदयति शमश्चेतसः स्पास्थिरत्वं
 साक्षात्कारः समाधौ प्रभवति विमलब्रह्मणोऽद्वैतसिद्धेः ॥ ८९ ॥