इति प्रायोनानाविधपरिभवोद्धान्तहृदयः
सवैलक्ष्यो दुःखाकिमपि च विधातुं न निपुणः ।
स भीमेनाक्षिप्तः परिकलितहास्येन सुभृशं
निवृत्तः संतापं हृदि दधदसाधारणमहो ॥ १७ ॥
इतीति । सवैलक्ष्यः सलज्जः॥
तथा दृष्ट्वा संपद्भरमनुपमं तत्क्रतुवरे
वशीभूतान्भूपान्विपुलतरकीर्ति च जगति ।
महत्वं पार्थस्यातिशयितमथालोक्य कुरुराड्
विषण्णो वैलक्ष्यं निरतिशयमागान्मनसि सः ॥ १८ ॥
तथेति । महत्वमिति दुर्योधनेन धृतराष्ट्रस्य पुरतोऽने वक्ष्यमाणमित्यर्थः ।।
समागत्यागारं निजमतिशयेर्ष्याकुलमना
मनागम्याधातुं मनसि न च शक्तः शमविधिम् ।।
दधन्मौनं पृष्ठोऽप्यथ शकुनिना हेतुमबद-
न्निजे दुःखे चिन्ताजलनिधिनिमग्नोऽभवदसौ ॥ १९ ॥
समागस्येति । ईय॑या परोत्कर्षदर्शनजनितया । मनागीधपि शमविधिमाधातुं नशक्तः। हेतुं अवदन् अकथयन् ।।
यदासौ निर्बन्धात्सुबलतनयेनातिशयितं
निरुद्धस्तत्सर्वं परिभवभवं दुःखमवदत् ।
कृतं पार्थैराशाविजयमथं यज्ञस्य विभवं
नृपाणां वश्यत्वं तदिति सकलं कारणगणम् ॥ २० ॥
यदेति । निर्बन्धादाग्रहेण । निरुद्धः कथयितुसुद्याचितस्तदा तत्सर्व पाथैः कृतं दिग्वि- जयादि सर्व परिभवभव खतिरस्कारजनित दुःखमवदत् ।।
सखे वारंवारं किमिह मम दुःखस्य शकुने
निदानं ज्ञात्वापि खयमनभिजानान इव माम् ।
समापृच्छस्येवं ननु विदित एवास्ति भवतः
समस्तोदन्तोऽयं मम हृदयदाहेऽधिकपटुः ॥ २१ ॥
सख इति । निदानं हेतुं अनभिजानानोऽनभिज्ञः ।।