पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला! श्येनपातोऽस्यां कियायामिति श्यैनंपाताम् । ये च वाचाटाः । वाचंयमानां मुनीनां योग्याम् ॥-दाण्डां मौष्टामिति । 'तदस्यां प्रहरणमिति क्रीडायां णः' 'स्त्रियाम्' 'अजायतष्टाप्' इति टाप् । श्यैनंपातामिति । 'नः सास्यां क्रियेति ञः' इति घयन्तात् पातशब्दात् कृद्रहणे गतिकारकपूर्वस्य कारकत्वादञ् । 'श्येन तिलस्य पाते ने' इति मुमागमः । वाचंयमानामिति । 'वाचि यमो व्रते' इति खच् । 'वाचंयमपुरंदरौ च' इति पूर्वपदस्यामागमो निपात्यते । वाचाटा इति । 'आलजाटचौ बहुभाषिणि' इ. खादच् । 'कुत्सित इति वक्तव्यम् । 'यचि भम् इति भसंज्ञायां कुत्वाभावः ।। वर्मायितं मत्रकृतां मरुत्वतः केशापहं दानवसत्त्वमेजयम् । स्वर्वासिनः सार्वमुदात्तवाङ्मयैः शर्वादयोऽस्तौषत शंयवो हरिम् ॥७२॥ शर्वादयः स्वासिनो हरिसुदात्तवाङ्मयैर्वाग्विकारैरस्ताषत स्तुतवन्तः । मन्त्रकृतां मन्त्रद्रष्टृणां वायितुं वर्मवदाचरितवन्तं रक्षकम् मरुत्वतः क्लेशापहम् । दानवसत्त्वमेजयं दानवानां सत्त्वं हृदयं कम्पयन्तम् । सावं सर्वस्मै हितम् । शंयवः सुखातिशयवन्तः॥-- शर्वादयोऽस्वौषतेति । 'सुप्तिडन्तं पदम्' इति पदसंज्ञायां 'एडः पदान्तादति' इति पूर्व- रूपत्वम् । वर्मायितामेति । आचारक्यचि 'नः क्ये' इति पदसंज्ञायां नलोपः । शेयव इति । 'केशंभ्यां बभयुस्तितुतग्रसः' इति युस् । 'सिति च' इति पदसंज्ञायामनुस्वारपर- सवौँ । मरुत्वत इति । मरुतोऽस्य सन्तीति मतुपि 'तसौ मत्वर्थे' इति भसंज्ञायां जश- भावः । शर्वादय इति । 'बहुषु बहुवचनम्' इति बहुवचनम् । हरिमिति । कयोक्चि- नैकवचने' इत्येकवचनम् । वाड्मयैरिति । 'मय.तयो षायामभक्ष्याच्छादनयोः' इति बि- कारे मयट्यरोऽनुनासिकेऽनुनासिकोवा'। 'तद्धितप्रत्यये भाषायां नित्यवचनं कर्तव्यम्। अमरारिभरातुरक्षमासाध्वगदंकारपरंतपानुभावे । भगवत्यभिलाषकेऽवतारं भुवनं प्रीतिवशंवदं बभूव ।। ७३ ॥ भगवति अवतारमभिलाषके सति भुवनं प्रीतिवशंवदं बभूव । अमरारिभरातुरक्षमासा- ध्वगदंकारपरंतपानुभावे अभयस्य एव भरस्तेनातुरायाः क्षमायाः साधुर्दक्षो अगदंकारश्चि- कित्सकः । परेषां तापयिता चानुभावो यस्य । 'दक्षस्तीर्थात्तशास्त्रार्थों दृष्टकर्मा भिषक् शुचिः' इति वाहटः ॥--वशंवदमिति । 'प्रियवशे वदः खच्' । 'अरुषिदजन्तस्य मुम्' परंतपेति । 'द्विषत्परयोस्तापेः' इति खच् । अगर्द कारेति । अगदं करोतीत्यण् । 'कारे सत्यागदस्य' इति 'अस्तु सत्यागदस्य कार इति वक्तव्यम्' इति मुमागमः ।। इति सटीके वासुदेवविजये द्वितीयः सर्गः। तृतीयः सर्गः। नारायणे रात्रिमटाङ्गनानामसातये तत्र जनिष्यमाणे । मुक्तं सुरैर्नाकनगप्रसून पपात नक्षत्रपथादनल्पम् ॥ १ ॥