पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । तत्र नारायणे अनिष्यमाणे प्रादुर्भविष्यति सति नक्षत्रपथात् अनल्यं नाकनगप्रसून स्वर्गवृक्षकुसुमं पपात । सुरैर्मुक्तम् । अनल्पं बहु । रात्रिमटाङ्गनानां राक्षसस्त्रीणामसातये न सातयति सुख्यतीत्यसातयः॥-नक्षत्रपथादिति । 'कारके' इत्यधिकृत्य 'ध्रुवमपाये- आदानम्' इत्यपादानसंज्ञा । 'अपादाने पञ्चमी'। रात्रिमटेति । 'रात्रेः कृति विभाषा' इति मुमागमः । असातय इति । 'अनुपसर्गालिम्पविन्दधारिपारिवेादेजिचेतिसाति-' इति नञ्पूर्वोत्सातेः सुखार्थांच्छः । 'नलोपो नवः' उत्तरपदे परे । अनल्पमिति । 'तम्मानुडचि' इति परस्य नुडागमः । नक्षत्रनाक इत्यत्र 'नानपानवेदानासत्यानमु- चिनकुलनखनपुंसकनक्षत्रनकनाकेषु प्रकृल्या' इति नजः प्रकृतिभावः । नगेति । 'नगोड- प्राणिध्वन्वतरस्याम्' इति प्रकृतिभावः ॥ येषां पराजेषत वीर्यभून्नो थेभ्यः पुरान्तर्दधते च पूर्वम् । मुष्टिंधयेभ्योऽपि च दानवेभ्यस्तेभ्यस्तदा नाविभियुर्दिविष्ठाः ॥ २॥ तदा दिविष्ठा देवास्तेभ्यो दानवेभ्यो नाबिभियुर्बिभ्यति स्म । ते पूर्व येषां वीर्यभून्नः पराजेषत विमुखीबभूवुः । मुष्टिधयेभ्यो अत्यन्तबालेभ्योऽपि येभ्यः पुरा अन्तर्दधते अन्तरदधत ॥---दानवेभ्य इति । भीत्रार्थानां भयहेतुः' इत्यपादानसंज्ञा । पराजेषत वीर्यभूम्नः इति । 'पराजेरसोढः' इत्यपादानसंज्ञा । येभ्यः अन्तर्दधते । 'अन्तद्धौं येना- दर्शन मिच्छति' इत्यपादानसंज्ञा । 'पुरि लुइचास्मे' इत्यनद्यतनभूतेऽपि लट। दिविष्ठा इति । 'सुपि स्थः' इति कास्ये 'हृद्दयुभ्यां च इति । सप्तम्या अलुकि 'अम्बाम्बगो- भूमि-' इति मूर्धन्यादेशः । मुष्टिवयेभ्य इति । 'नाडीमुष्टयोश्च' इति खश् । [भून्न इति 'पृथ्वादिभ्यः-' इतीमनिच्प्रत्यये 'बहोर्लोपो भू च बहोः' इति बहुशब्दस्य भूरादेशः प्रत्ययादिलोपश्च ॥] विभीहि मा देवकि ते सुतोऽयं संत्रास्यते त्वां स सगोत्रवग्याम् । खस्त्यस्तु तुभ्यं सहभर्तृकायै विहाय इत्यानशिरे गिरोऽर्थ्याः ॥३॥ हे देवकि, मा विभीहि । ते सोऽयं सुतः सगोनवर्या त्वां संत्रास्यते रक्षिष्यति । समानगोत्राणां वर्गे भवाः सगोत्रवाः । सहभर्तृकाय तुभ्यं खस्त्यस्तु इति गिरो विहाय आकाशं आनशिरे व्याप्ताः । अर्ध्या अर्थादनपेताः ॥--सगोत्रवामिति । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्गवयोवचनबन्धुषु' इति समानशब्दस्य सभावः । चोपसर्जनस्य' इति बहुव्रीह्मवयवस्य सहशब्दस्य सभावः । सहभर्तृकायै । 'प्रकृत्याशिषि' 'अगोवत्सहलेषु' इति सहशब्दस्य प्रकृतिभावः । 'नयतश्च' इति कम् समासान्तः । अर्थ्या इति । 'धर्मपथ्यर्थन्यायादनपेते' इति यत् ॥ अथार्धरात्रे निबिडैस्तमोभिरभ्रंलिहैश्छन्नदिशे निकंसः । खारिंपचामत्रविपकमन्नं विष्वण्य सुष्वाप स रक्षिवर्गः ॥ ४ ॥ अथार्धरात्रे निकंसः कसेन नियुक्तो रक्षिवर्गोऽनं विध्वण्य सशब्दं भुक्त्वा सुष्वाप ।