पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ काव्यमाला । यानाः । पैप्पलादं पिप्पलादप्रोक्तं छन्दोऽधीयानाः। तैत्तिरीयाः तित्तिरिप्रोक्तं छन्दोऽधीयानाः विदन्तो वा । आर्त्विजीनाः ऋत्विजमर्हन्तो यागयोग्याः । ऋत्विक्कर्मार्हा वा॥-विश्वंभरमिति। 'संज्ञायां भृतॄवृजिधारिसहितपिदमः' इति खच् । थायावरा इति । यातेर्यड्। 'यश्च यडः' इति वरच् । लाक्षणिका इति 'तदधीते तद्वेद' इत्यधिकृत्य 'ऋतूक्थादिसूत्रान्ताट्ठक्' इति अनुसूर्लक्ष्यलक्षणे च (?)' इति ठक् । क्रमका इति । 'क्रमादिभ्यो वुन्' । अनुब्राह्मणीति। अनुब्राह्मणादिनिः। पैप्पलादा इति । पिप्पलादशब्दात् 'तेन प्रोक्तम्' इत्यण् । छन्दसि तदन्तात् 'छन्दोब्राह्मणानि च तद्विषयाणि' इति वचनात् अध्येतृवेदित्रोरुत्पन्नस्य 'प्रोक्तात् लुक्' इति लुक् । तैत्तिरीया इति तित्तिरिवरतन्तुखण्डिकोखाच्छण् तदन्तादप्युत्पन्नस्य प्रत्ययस्य लुक् । कौशिकीति । 'काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' । तदन्तादुत्पन्नस्य 'प्रोक्ताल्लुक् । 'छन्दोब्राह्मणानि च' इति चकारात् कल्पसूत्राणामपि केषांचित् तद्विषयता। कठा इति । 'कलापिवैशंपायनान्तेवासिभ्यश्च' इति वैशंपायनान्तेवासित्वाण्णिनिः । तस्य 'कठचरकाल्लुक्' तदन्तात्तथा तद्विषयादुत्पन्नस्य प्रत्ययस्य 'प्रोक्तात् लुक् ।' आर्त्वजीना इति । 'यज्ञर्त्विग्भ्यां घखञौ' । 'तत्कर्मार्हन्तीत्युपसंख्यानम्' ॥

औदुम्बरे वैदिशनैम्बमुख्ये देशेऽवसन्ये स जनंगमौघाः । ये चाधिकौशाम्बि जनास्तदानीमाकस्मिकीं प्रीतिमयासिषुस्ते ॥ १९ ॥ ते जना अपि तदानीमाकस्मिकीमविद्यमानहेतुकां प्रीतिमयासिषुः। ये औदुम्बरे वैदिशनैम्बमुख्ये च देशे तन्नामकेषु देशेषु अवसन् । अधिकौशाम्बि कौशाम्ब्यामवसन्। ते जनंगमौघाः। जनंगमाश्चण्डालाः॥-जनंगमा इति। 'गमश्च' इति खच् । औदुम्बर इति । उदुम्बरा अस्मिन्सन्तीति तथा । 'तदस्मिन्नस्तीति देशे तन्नाम्नि' इत्यण् । कौशाम्बीति । कुशाम्बेन निवृत्ता इति तथा । 'तेन निर्वृत्तम्' इत्यण् । नैम्बेति । निम्बानां निवास इति । 'तस्य निवासः' इत्यण् । वैदिशेति । विदिशाया नगर्या अदूरभवं नगरं वैदिशम् । 'अदूरभवश्च' इत्यण् । आकस्मिकमिति । अकस्माच्छन्दो विनयादिः स्वार्थे ठक् ॥

पाण्ड्यैः कलिङ्गैः कुरुभिः प्रसिद्धा वसुंधरा सर्वगशक्तिसारे । जाते हरौ तारपतावुदीते कुमुद्वतीव स्म चकास्ति ॥ २०॥ हरौ जाते वसुंधरा चकास्तिरूपं स्म । प्रशस्तमशोभत । तारपतौ उदीते । कुमुद्वतीव पाण्ड्यैः कलिङ्गैः कुरुभिर्जनपदैः प्रसिद्धा अलंकृता । सर्वगशक्तिसारे सर्वं गच्छति व्याप्नोति इति सर्वगः। 'अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः' इति गमेः कर्मण्युपपदे डः। 'डित्यमस्यापि' इति टिलोपः । पाण्ड्यैः कलिङ्गैः कुरुभिः इति । पाण्ड्यादीनां निवास इत्यर्थे उत्पन्नस्याणो 'जनपदे लुप्' इति लुप् । 'लुपि युक्तवद्व्यक्तिवचने' इति पुंस्त्वं बहुत्वं च । 'पाण्डोर्जनपदशब्दात् क्षत्रियात् ड्यण्वक्तव्यः' इति पाण्ड्यशब्दः । कुमुद्वतीति । 'कुमुदनडवेतसेभ्यो ड्मतुप्' । डित्वाट्टिलोपः । 'झयः' इति वत्वम् । चकास्तिरूपमिति । 'प्रशंसायां रूपम्' ।