पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । १०५ तापिच्छनीकाशरुचि प्रतीचि स्वर्वैरिमर्माविधि पुंसि रागात् । स शत्रुहः स्तादिति वक्तुकामः स्वयं व्यलज्जिष्ट विविच्य गर्गः ॥२१॥ गर्गः प्रतीचि सर्वप्रत्यगात्मनि पुंसि रागात् स शत्रुहः शत्रूणां हन्ता भूयादिति वक्तुकामः सन् विविच्य स्वयं व्यलज्जिष्ट लज्जते स्म । तापिच्छनीकाशरुचि तमालसदृशकान्तौ स्वर्वैरिमर्माविधि असुराणां मर्मवेधकर्तरि ॥-शत्रुह इति । 'आशिषि हनः' इति डः ।मर्माविधीति । मर्मपूर्वकाद्व्यधधातोः क्विपि 'नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ' इति पूर्वपदस्य दीर्घः। संप्रसारणम् । नीकाश इति । पचाद्यच् । 'इकः काशे' इति दीर्घः। प्रतीचीति । 'चौ' इति दीर्घः ॥

दन्तावलेन्द्रं सुचिरेण बाष्पपाथःपरीवाहततस्तुराषाट् । विमुच्य विश्वावसुविष्टुतः सन्नातिष्ठदष्टापदविष्टराग्र्यम् ॥ २२ ॥ तुराषाट् सुचिरेण दन्तावलेन्द्रं ऐरावतं विमुच्य विश्वावसुविष्टुतः सन् अष्टापदविष्टराग्र्यं स्वर्णसिंहासनमातिष्ठत् आक्रम्य स्थितवान् बाष्पपाथःपरीवाहततः ॥-दन्तावलेति । 'दन्तशिखात्संज्ञायाम्' इति मत्वर्थीयो वलच् । 'वले' इति दीर्घः । विश्वावस्विति । 'विश्वस्य वसुराटोः' इति दीर्घः । परीवाहेति । 'वाहेर्भावे घञ्' । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । अष्टापदेति । 'अष्टनः संज्ञायाम्' इति दीर्घः । तुराषाडिति । तुरं वेगवन्तं सहते इति 'छन्दसि सहः' इति ण्विः । छान्दसा अपि लोके भवन्तीति 'अन्येषामपि दृश्यते' इति दीर्घः ॥

क्षिप्नुः सुदर्पात्पुरुहूतपक्ष्यान्कंसः पतिघ्नीमथ पाणिरेखाम् । दारैर्दधद्भिः सहितोऽजशक्त्या मूर्च्छां तदानर्च्छ कुमारघाती ॥ २३ ॥ अथ तदा कंसः अजशक्त्या विष्णुमायया हेतुना मूर्च्छामानर्च्छ प्राप्तवान् । पतिघ्नीं पाणिरेखां दधद्भिः दारैः सहितः। सुदर्पात् दर्पसमृद्धेर्हेतोः पुरुहूतपक्ष्यान् इन्द्रपक्षभवान् क्षिप्नुर्निरसनशीलः । कुमारघाती ॥-कुमारघातीति । 'कुमारशीर्षयोर्णिनिः' । पतिघ्नीमिति । हन्तेः 'लक्षणे जायापत्योष्ठक्' । हूतेति हूतमाह्वानम् । ह्वयतेः क्तः। यजादित्वात् संप्रसारणम्। 'अङ्गस्य' इत्यासप्तमाध्यायपरिसमाप्तेरधिकारः । 'हलः' इति दीर्घः। सुदर्पादिति । समृद्धावव्ययीभावः ॥ तमीशितारं तिसृणां गतीनां सुखाय नॄणामुररीकृताङ्गम् । चतुर्दशानां प्रभवं तनूजं विद्यापदानां पितरौ तनु (नुतः) स्म ॥२४॥ पितरौ देवकीवसुदेवौ तनूजमात्मजं नुतः स्म तुष्टुवतुः । तिसृणां सत्त्वरजस्तमोमयीनां गतीनां ईशितारम् । नॄणां सुखाय उररीकृताङ्गम्। चतुर्दशानां विद्यापदानां स्थानभूतम् । गतीनामिति । 'ह्रस्वनद्यापो नुट्' इति नुरि 'नामि' इति दीर्घः । तिसृणामिति । 'न तिसृचतसृ' इति दीर्घाभावः । नॄणामिति । 'नृ च' इति दीर्घः । चतुर्दशानामिति । 'षट्चतुर्भ्यश्च' द.११