पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० काव्यमाला ।

वारयिता न कोऽपि । धर्माधर्मौ परं केवलं बलीयसः परिपरि अतिबलवन्तं परिहृत्य वर्तते इत्यपास्य जानीहि ॥-भङ्क्ष्यति हरिष्यतीति । 'विभाषा साकाङ्क्षे' इति यच्छब्दसहिते केवले चाभिज्ञावचने उपपदे वा लृट् । तत इति । 'वारणार्थानामीप्सितः' इत्यपादानसंज्ञा । श्वास इति । 'श्याद्व्यधास्रुसंस्व्रतीण्वसावहलिहश्लिषश्वसश्च' इति णः परिपरि इति । 'परेवर्जने' 'असमासे चेति वक्तव्यम्' इति द्वित्वम् 'पञ्चम्यपाड्परिभिः ॥

अर्ध्यां शंभोर्भावयित्वा मृडानीं लेभे तस्माद्रावणः प्रागभीष्टम् । आयान्त्यायःशूलिकान्पार्श्वकान्वा संप्रत्यर्था पश्य नन्यायवृत्तान् ॥७५॥ प्राक् रावणो विश्रवसोऽपत्यं शंभोरध्य-मर्धे वर्तमानां मृडानीं भावयित्वा तस्मादभीष्टं लेभे । संप्रति आय:शूलिकाम् तीक्ष्णोपायेनार्थानन्विच्छतः पार्श्वकान् वा अनृजुना उपायेनार्थानन्विच्छतश्च । अर्था आयान्ति । पश्य । न तु न्यायवृत्तान् ॥--अर्ध्यामिति । 'अर्धाद्यत्' शैषिकः । पार्श्वकानिति । 'पार्श्वेनान्विच्छति' । इति कन् । आयःशूलिकानिति । 'अयःशूलदण्डाजिनाभ्यां टक्ठञौ' । शंभोरिति । डप्रकरणे ‘मितद्व्रादिभ्य उपसंख्यानम्' इति डः भूप्राप्तौ' आत्मनेपदी। शं कल्याणं भूतवान् लब्धवानिति । रावण इति । 'शिवादिभ्योऽण्' इति गणे 'विश्रवणरवणौ' इति पाठात् विश्रवसो रवणादेशः ॥

निग्राहिता सोऽपि सुधारसान्धो दर्शिष्यते येन पतन्पदोस्ते । जगद्भुजाविक्रमजेन तेऽदः प्रभावभूम्ना परिभाविषीष्ट ॥ ७६ ॥ यः पुरुषस्ते पदोः पतन् न दर्शिष्यते स सुधारसान्धः सुधारसाशनोऽपि निग्राहिता हनिष्यते । भवद्भुजाविक्रमजेन प्रभावभूम्ना अदो जगत् परिभाविषीष्ट परिभूयताम्॥--विक्रमजेति । 'पञ्चम्यामजातौ' इति डः । दर्शिष्यत इति । 'स्यसिच्' इति चिण्वद्भावः । परिभाविषीष्टेति । सीयुटि । निग्राहितेति । तासौ ॥

इत्युक्तवत्यै स सहायतायै प्रीणन्परार्ध्यानि वसूनि वाग्मी । ददेऽवरार्ध्यानि च राष्ट्रियाणि द्वैप्यानि मध्यानि च पार्वतानि ॥ ७७ ॥ स इति उक्तवत्यै सहायतायै सहायस्य समूहाय प्रीणन् तां तोषयितुं वसूनि रत्नानि ददे दत्तवान् । वाग्मी प्रशस्तवाक् । कानि । परार्ध्यानि उत्तमार्ध्या॑नि अवरार्ध्या॑नि अधमार्ध्यानि मध्यानि समानि राष्ट्रियाणि राष्ट्रे भवानि द्वैप्यानि समुद्रसमीपद्वीपे भवानि पार्वतानि पर्वते भवानि च ॥-[पार्वतानि]इति । 'विभाषामनुष्ये'इति छाभावपक्षेऽण् । राष्ट्रियाणीति । 'राष्ट्रावारपाराद् घखौ' । परार्ध्यानीति अवरार्ध्यानीति 'परावराधमोत्तमपूर्वाच्च' इति यत् । मध्यानीति। मध्यशब्दात् 'अ सांप्रतिके' इत्यप्रत्ययः । द्वैप्यानीति । 'द्वीपादनुसमुद्रं यञ्' । वाग्मीति । 'वाचो ग्मिनिः' मत्वर्थीयः ॥

देवद्रीचा दोःपटिम्नाम्रदिष्ठानत्यन्तीनांस्तांस्तथादिश्य वश्यान् । शश्वद्विष्णोर्घातुकान्भीरुकः सन्स न्यध्यासीत्तन्मयं विश्वमेतत् ॥७८॥