पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ काव्यमाला ।

कीदृशान् ! परिक्लिन्दितसज्जनात् । परिक्लिन्दिताः परिदेविता: सज्जना येन तस्मात्॥-प्रश्विन्दितेति। १० श्विदि श्वैत्ये । णिजन्तात् कर्मणि क्तः । विवन्दिषुरिति । ११ वदि अभिवादनस्तुत्योः। प्रणतिपूर्वकमाशीर्वचनं नतिमात्रं वाभिवादनम् । अस्मात् सन्नन्तात् 'सनाशंसभिक्ष उः' इत्युप्रत्ययः । नतभन्दिनमिति । १२ भदि कल्याणे सुखे च । कल्याणं कल्याणवद्भावः । अस्माण्णिजन्ताण् णिनिः । मन्दिरादिति । १३ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । स्वप्न आलस्यम् । अस्मादधिकरणार्थे 'इषि-मदि-मुदि-खिदि-श्विदि-मिदि-मन्दि' इत्यादिना किरच् । स्पन्दितुमिति । १४ स्पदि किंचिच्चलने । तस्मात् 'शकधृष-'इत्यादिना तुमुन् । परिक्लिन्दितेति। १५ क्लिदि परिदेवने। अस्माण्णिजन्तात् कर्मणि क्तः ॥

अस्य संतोषातिशयं दर्शयति- मुदा स चेतो दददे चिरं हरौ स्वादात्सुरैः स्वर्दितमङ्गलोर्दने । अकूर्दतेवास्य पुरः स्वखूर्दकैर्वनान्तगूर्दी रिपुगोदसूद्यसौ ॥ स मुदा चिरं हरौ चेतो दददे। मुदा हेतुना दददे समर्पितवान् । स्वादात् माधुर्यात् हेतोः सुरैः स्वर्दितमङ्गलोर्दने स्वर्दितानि आस्वादितानि मङ्गलरूपाण्यूर्दनानि क्रीडनानि यस्य तस्मिन् । मनोलयस्यातिशयमाह-असौ अस्य पुरः स्वखूर्दकैरकूर्दतेव । असौ हरिः स्वखुर्दकैः स्वकीयैः क्रीडनकैर्वयस्यैरित्यर्थः । सहार्थे तृतीया । अकूर्दत क्रीडितवान् । वनान्तगूर्दी वनान्ते वनमध्ये गूर्दितुं क्रीडितुं शीलं यस्य सः । रिपुगोदसूदी रिपूणां गोदं क्रीडां सूदितुं हिंसितुं शीलं यस्य॥--मुदा । १६ मुद हर्षे । अस्मात् संपदादिक्विप् । दददे । १७ दद दाने । धारणे च कल्पद्रुमे । अस्माल्लिटि 'न शसदद-' इत्येत्वाभ्यासलोपाभावः । स्वादात् । १८ स्वद १९ स्वर्द आस्वादने । आस्वादमनुभवः । 'धात्वादेः षः सः' । स्वदेर्घञ् । स्वर्दितेति कर्मणि क्तः । अनयो राघःषोपदेशः । अन्यो नः। अदन्त्य(?)पराः सादयः षोपदेशाः । स्मिड्-स्विदि-स्वदि-स्वञ्जि-स्वपयश्च' इत्युक्तेः । ऊर्दनेति । २० उर्द माने क्रीडायां च । अस्माल्ल्युटि । 'उपधायां च' इति दीर्घः । अकूर्दतेति । २१ कुर्द २२ खुर्द २३ गुर्द २४ गुद क्रीडायामेव । कुर्देर्लङ् । खूर्दकैः खूर्देण्वुल् । वनान्तगूर्दी । रिपुगोदसूदी । गूर्देर्णिनिः । गुदेश्च घञ् । २५ षूद क्षरणे । निःसरणं तदहिंसार्थेऽप्यस्ति अस्माण्णिनिः ॥

गभीरनिर्ह्लादमथास्थितो रथं ह्लदादनुस्वादितकृष्णसत्कथः । पृदाकुजिद्वेगमयत्नतो ययौ वियोयुतत्काननजोतिनाध्वना ॥ ५ ॥ अथ स रथमास्थितोऽयत्नतो वियोयुतत् काननजोतिनाध्वना पृदाकुजिद्वेगं ययौ । आस्थितः आरुह्य स्थितः । अयत्नतोऽप्रयासेन । वियोयुतत् काननजोतिना वियोयुतता अत्यर्थे भासमानेन काननेन जोतितुं भासितुं शीलं यस्य तेन । पृदाकुजिद्वेगम् । फूत्कारा-


१. 'दन्त्याजन्तसादयः' इति फलितोऽर्थः.