पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० काव्यमाला

वृन्दावनं विशिनष्टि चतुर्दशभिः-- अराखितत्वग्भिरलाखितच्छदैः प्रदाखिताध्राखिफलैश्च शाखिभिः । प्रश्लाखितं प्रोखितसत्वमुङ्खितं खगैर्वखन्मारुतवङ्खिसौरभम् ॥ १८ ॥ शाखिभिः प्रश्लाखितं व्याप्तम् । कीदृशैरित्यत्राह–अराखितत्वग्भिः। अराखिता अशुष्का त्वग् येषां तैः । अलाखितास्तरुणाश्छदा येषां तैः । प्रद्राखितानि अत्यन्तपर्याप्तानि अध्राखीन्यशोषणशीलानि फलानि येषां तैः । प्रोखितसत्वम् । प्रोखितानि इतस्ततो गच्छन्ति सत्वानि जन्तवो यस्मिंस्तत् । खगैरुङ्खितं प्राप्तम् । वखन्मारुतवङ्खिसौरभम् । वखता संचरता वायुना सह गमनशीलं सौरभं सौरभ्यं यस्य तत् ॥ अराखितेति । राखेः कतर्रि क्तः। अलाखितेति । लाखेः क्तः।प्रदाखितेति । द्राखेः क्तः । अध्राखीतिध्राखेर्णिनिः । शाखीति । १२७ शाखृ १२८ श्लाखृ व्याप्तौ । शाखेरप्रत्ययान्ताद्व्रीह्यादित्वादिनिः । प्रश्लाखितम् । श्लाखेः क्तः। प्रोखितेति । १२९ उख १३० उखि १३१ वख १३२ वखि १३३ मख १३४ मखि १३५ णस्त्र १३६ णखि १३७ रख १३८ रखि १३९ लख १४० लखि १४१ इख १४२ इखि १४३ ईखि १४४ वल्ग १४५ रगि १४६ लगि १४७ अगि १४८ वगि १४९ मगि १५० तगि १५१ त्वगि १५२ श्रगि १५३ श्लगि १५४ इगि १५५ रिगि १५६ लिगि गत्यार्थाः। उखेः कर्तरि क्तः । उखितमिति । उङ्खेः कर्मणि क्तः । वखदिति । वेखेः शता । वङ्खीति । वङ्खेर्णिनिः ॥

मखत्कपोतं मदमङ्खिबर्हिणं लखत्पिकं नङ्खितखञ्जनोत्करम् । रखच्छशं रङ्खितरङ्कु रिङ्खितद्विपं लखत्केसरिलङ्खदारवम् ॥ १९ ॥ मखन्त उद्गच्छन्तः कपोता यस्मिंस्तत्। मदेन मङ्खन्तो गमनशीला बर्हिणो यस्मिस्तत् । नखन्तः संचरन्तः पिकाः यस्मिस्तत् । नङ्खितः संचरन् खञ्जनानामुत्करो यस्मिंस्तत् । रखन्तः शशा यस्मिंस्तत् । रङ्खिता रङ्कवो यस्मिंस्तत् । रिङ्खिताश्चलिता द्विपा यस्मिस्तत् । लखद्भ्यः इतस्ततो गच्छद्भ्यः केसरिभ्यो लङ्खन्नुद्गच्छन्नारवो यस्मिंस्तत् ॥– मखेः शता । मिङ्खेर्णिनिः । नखेः शता । नखे: क्तः। रङ्खेः शता । रङ्खेः क्तः । लखिलङ्घ्योः शता ॥

एखच्चकोरोत्करमिङ्खितं शुकैः प्रेङ्खल्लतावल्गनरङ्गमण्डपम् । विलङ्गदेणं शबराङ्गनाजनप्रवङ्गितं मङ्गलधेनुतङ्गितम् ॥ २० ॥ एखन्त उद्गच्छन्तश्चकोरोत्कराः यस्मिंस्तत् । शुकैरिङ्खितं प्राप्तम् । प्रेङ्खन्त्याश्चलन्त्या लतारूपायाः नर्तक्याः वल्गनस्य नर्तनस्य रङ्गमण्डपम् । विलङ्गन्तो विशेषेण गच्छन्त एणा यस्मिंस्तत् । शबराङ्गनाजनैः प्रवङ्गितं प्राप्तम् । मङ्गलधेनुतङ्गितं मङ्गलरूपाभिर्धेनु-


१. 'चकोरोत्सराः' इति पाठः.