पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४

पुटमेतत् सुपुष्टितम्

सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन्समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ १३७ ॥

तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वज्ञाद्या देव्यः सकला: संपादयन्तु मम कीर्तिम् ॥ १३८ ॥

चक्रे समस्तरक्षाकरनाम्न्यस्मिन्समस्तजनसेव्याम् ।
मनसि निगर्भासहितां मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ १३९।।

सर्वज्ञासदनोपरि चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्या: शक्ती: सिन्दूररेणुरुचः ॥ १४०॥

श्री1सर्वरोगहराख्यचक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ १४१ ॥

वशिनीगृहोपरिष्टाद्विंशतिहस्तोन्नते महापीठे।
शमयन्तु शत्रुवृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ १४२ ॥

शस्त्रसदनोपरिष्टाद्वलये बलवैरिरत्नसंघटिते ।
कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥ १४३ ॥

चक्रेऽत्र सर्वसिद्धिप्रदनामनि सर्वफलदात्री।
त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥ १४४ ॥

कामेश्वरीगृहोपरि वलये विविधमनुसंप्रदायज्ञाः ।
चत्वारो युगनाथा जयन्तु मित्रेशपूर्वका गुरवः ॥ १४५ ॥

2नाथभवनोपरिष्टान्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः कलयन्तु मुदं तिथिस्वरूपिण्यः ॥ १४६ ॥

नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥ १४७ ॥

सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारं मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ १४८ ॥

परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः।
मायामयी जवनिका मम दुरितं हरतु मेचकच्छाया ॥ १४९ ॥

१. 'श्रीसंगरोग' क. २. 'नाद' क.