पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ काव्यमाला । क्रूरत्वार्थो लक्षणया । शण्डनेति । २८० शडि रुजायां संघाते च । ल्युट् । वैतण्डिकेति । २८९ तडि ताडने । अस्माद 'गुरोश्च' इत्यकारे वितण्डा परपक्षस्य ताडनं निरसनं तथा दीव्यति व्यवहरतीति वैतण्डिकः ॥-पण्डितेति । २८२ पडि गतौ। प्राग्वदकारे पण्डा ज्ञानं गत्यर्थानां ज्ञानार्थत्वात् । अस्मात् तारकादित्वादितचि पण्डितः । अकण्डान् । २८३ कडि मदे । घञ् । खण्डनेति । २८४ खडि मन्थे । ल्युट् । हेडेति । २८५ हेडृ २८६ होडृ अनादरे हेडेर्घञ् ॥

अहोडनीयान्पशुपालयानसौ अपश्यदानन्दपयोधिबाडितः । सुपाकविद्रालिफलालिभिर्द्रुमैः स्निग्धानविध्राडितचारुशालिकान् ३८ असौ पशुपालयानपश्यत् । कीदृश इत्यत्राह-आनन्दपयोधिबाडितो मोदपयोधावाप्लुतः । कीदृशानित्यत्राह–अहोडनीयान् अनादर्तुमयोग्यान् । सुपाकविद्रालिफलालिभिर्द्रुमैः । स्निग्धान् । सुपाकेनातिपक्वतया विशरणशीलाः फलानां आलयो येषां तैर्दुमैः स्निग्धान् निबिडान् । अविध्राडितचारुशालिकान् अविध्राडिता अविशीर्णमञ्जरीयुक्ता अत एव चारवः शालयो येषु तान् । 'शेषाद्विभाषा' इति कप् ॥--अहोडनीयानिति । होडेरनीयर् । बाडितेति । २८७ बाडृ आप्लाव्ये । आप्लवनं तत् । कर्तरि क्तः । विद्रालि । २८८ द्राडृ २८९ ध्राडृ विशरणे । द्राडेर्णिनिः । 'डलयोरुक्तिभेदस्तु डकारो नाक्षरान्तरम्' इत्युक्त्या डस्य लः । अविध्राडितेति । ध्राडेः कर्तरि कः । शालीति । २९० शाडृ श्लाघायाम् । डलयोरभेदाल्लकारः । अस्मादौणादिक इन् । अट्टादय उदात्ता अनुदात्तेतः ॥

पशुपालयानेव वर्णयति पञ्चदशभि-(त्वष्टभिः)- प्रशौटदुस्रागणयौटितान्तिकान्मेटद्वृषाम्रेडितघोषमेदुरान् । अम्लेटकैश्चाकटुचाटुभाषितैरटैः पटत्संरटिताञ्जनोत्करैः ॥ ३९ ॥ प्रशौटद्भिर्गर्वायमाणैरुस्रागणैर्गोगणैः । यौटितं संबद्धमन्तिकं येषां तान् । मेटतां माद्यतां वृषाणामाम्रेडितेन पुनः पुनः कृतेन घोषेण नर्दनेन मेदुरान् पूर्णान् । जनोत्करैः पटत्संरटितान् पटत् व्याप्नुवत् संरटितं शब्दो येषां तान् । कीदृशैः । अम्लेटकैरमाद्यद्भिः । अकटु अतीक्ष्णं चाटु प्रियं भाषितं येषां तैः । अटैः संचरद्भिः ॥–-प्रशौठदिति । २९१ शौट्ट गर्वे । गण्यन्ता उदात्ता उदात्तेतः । अस्माच्छता । यौटितेति । २९२ यौट्ट बन्धे । कर्मणि क्तः । मेटदिति । २९३ मेट्ट २९४ म्रेड्ट २९५ म्लेट्ट उन्मादे । मेटेः शता । म्रेडेः कर्मणि क्तः । आड्पूर्वत्वादुत्तयर्थः । अम्लेटकैः । म्लेटेर्ण्वुल् । अकटु इति । २९६ कटे वर्षावरणयोः । चटे इत्येके । कटेः 'कटिबन्ध्यन्धिभ्यश्च' इत्युत्प्रत्ययः । चाट्विति । 'दसनिजनिवारचटिरहिभ्यो ञुण् । अटैः । २९७ अट २९८ पट गतौ । अटेः पचाद्यच् । पटेः शता । संरटितेति । २९९ रट परिभाषणे । 'नपुंसके भावे क्तः' ॥