पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ काव्यमाला । रप ४०२ लप व्यक्तायां वाचि । रपेर्लिट् । कललापिनः । लपोर्णिनिः । चुपित्वा । ४०३ चुप मन्दायां गतौ । अस्मात् 'समानकर्तृकयोः पूर्वकाले' इति क्त्वा । तुतुपुः । ४०४ तुप ४०५ तुम्प ४०६ त्रुप ४०७ त्रुम्प ४०८ तुफ ४०९ तुम्फ ४१० त्रुफ ४११ त्रुम्फ हिंसार्थाः । तुपेर्लिट् । अतुम्पन् । तुम्पेर्लड् । अभितुत्रुपुः । त्रुपेर्लिट् ॥

अत्रुम्प्यधामानमिनं प्रतोफितुं प्रतुम्फशीलान्मिलतोऽथ राक्षसान् । अत्रोफकास्तुम्फितुमुद्यता जलैर्वापीमपर्पन्नरफन्नदीं द्विजाः ॥ ५३ ॥ अथ द्विजाः अत्रुम्प्यधामानमिनं प्रतोफितुं मिलतः राक्षसान् जलैस्तुम्फितुमुद्यताः वापीमपर्पन् । नदीमरफन् । अत्रुम्प्यमहिंस्यं धाम तेजो यस्य तमिनं सूर्यं प्रतोफितुं हिंसितुं मिलतः संघीभवतो राक्षसान् मन्देहनाम्नो जलैः संध्याञ्जलिभिस्तृम्फितुं हन्तुमपर्पन्नगच्छन् । केचित् नदीमरफन्नगच्छन् । कीदृशाः द्विजाः । अत्रोफका अहिंसकाः । कीदृशान् राक्षसान् । प्रत्रुम्फशीलान् । प्रतुम्फो हिंसनं शीलं येषां तान् ॥–अत्रुम्प्येति। त्रुम्पेर्ण्य॑त् । प्रतोफितुम् । तुभेस्तुमुन् । प्रतुम्फेति । तुम्फेर्घञ् । अत्रोफकाः । त्रुफेर्ण्वुल् । तुम्फितुम् । त्रुफेस्तुमुन् । अपर्पन्निति। ४१२ पर्प ४१३ रफ ४१४ रफि ४१५ अर्ब ४१६ पर्ब ४१७ लर्ब ४१८ बर्ब ४१९ मर्ब ४२० कर्ब ४२१ खर्ब ४२२ गर्ब ४२३ शर्ब ४२४ षर्ब ४२५ चर्ब गतौ । अर्बादयो नोपधा इत्येके । पर्पेर्लड् । रफेश्च लड् ॥

हयैः सुरम्फैर्द्रुतमर्बतो रवेः पर्वद्भिरालर्ब्यत रक्तिमा करैः । प्रबर्ब्य शैलानुपमर्ब्य पद्मिनीं प्रकर्ब्य चाशा: श्रमशोणितैरिव ॥५४॥ सुरम्फैर्हयैर्द्रुतमर्बतो रवेः पर्वद्भिः करैः रक्तिमा आलर्ब्यत । सुरम्फैः शोभनगमनशीलैः । अर्बतः गच्छतः । पर्बद्भिः प्रसरद्भिः करैः रश्मिभिः । रक्तिमा रक्तत्वम् । आलर्ब्य॑त सम्यगवापि । शैलान् प्रबर्ब्य, पद्मिनीमुपमर्ब्य, आशाः प्रकर्ब्य च, श्रमशोणितैरिव । शैलाग्रगमनेन पद्मिनीप्राप्त्या सर्वदिक्संचारेण च जातेन परिश्रमेण शोणितैरिव ॥----सुरम्फैरिति । रम्फेर्घञ् । अर्बे शता । पर्बेश्च । आलर्ब्यत । कर्मणि लड् । बर्बिमर्बिकर्बीनां ल्यप् ॥

अखर्वि शैलाप्रमगबि सौधभूरशर्बि शाखाशिखरं च रश्मिभिः । ऊर्ध्वप्रसर्वान्न तु चर्विता मही दिक्कुम्बितेऽर्के परिलुम्बिताम्बुजे ॥५५॥ रश्मिभिः शैलाग्रमखर्बि । सौधभूरगर्बि । शाखाशिखरं च अशर्बि । सर्वत्र प्राप्तमित्यर्थः । अर्के परिलम्बिताम्बुजे दिक्कुम्बिते ऊर्ध्वप्रसर्वात् मही न तु चर्बिता । परिलम्बितानि अर्दितानि अम्बुजानि येन तादृशे अर्के दिशाच्छादिते सति । ऊर्ध्वगमनात् हेतोर्मही रश्मिभिः न प्राप्ता अखर्बि । अगर्बि । अशर्बि । एषु कर्मणि चिण् । प्रसर्बेति ।