पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १४७ अन्तस्थया कौतुकमूर्छया व्रजं तदायतासौ वयमानवात्सकम् । पयः प्रदोहादिरताः प्रमथ्य तं प्रैक्षन्त नूत्नाचयितं कुतूहलात् ॥६१॥ असौ तदा अन्तस्थया कौतुकमूर्च्छया व्रजमायत् आगच्छत् । कीदृशं व्रजम् । वयमानं ततस्ततो गच्छत् वात्सकं वत्ससमूहो यस्मिस्तम् । पयः प्रदोहादिरता जनाः प्रमथ्य नूत्नाचयितं तं कुतूहलात् प्रैक्षन्त । प्रमथ्य प्राप्य नूत्नया आचयितं आगतम् ॥-आयतेति । ४७४ अय ४७५ वय ४७६ पय ४७७ मय ४७८ चय ४७९ तय ४८० णय गतौ । षय इत्यप्येके । 'तय णय रक्षणे च' इत्येके । अयेर्लड्। वयेः शानच् । पयेरसुन् । मयेर्ल्यम् । आचयितं । चयेः कर्तरि क्तः ॥

प्रतथ्य किंचिन्नयितो गृहान्तिकं ददर्श धन्यः स दयालुमीश्वरम् । गोदोहदेशे रयितं सहाग्रजं तमूतसत्कीर्तिमपूतिभिर्गुणैः ॥ ६२ ॥ धन्यः स किचित् प्रतथ्य गृहान्तिकं नयितः दयालुमीश्वरं सहाग्रजं ददर्श । प्रतथ्य चरित्वा । नयितः प्राप्तः । कीदृशमीश्वरम् । गोदोहदेशे रयितमुपगतम् । अपूतिभिर्गुणैरूतसत्कीर्तिम् । सुरभिभिः सर्वेन्द्रियानन्दिभिः स्वगुणरूपैर्गुणैस्तन्तुभिरूता कृता सती प्रशस्ता कीर्तिरूपा पटी येन तम् । प्रतथ्येति । तयेर्ल्यप् । नयितः णयेः कर्तरि क्तः । दयालुमिति । ४८१ दय दानगतिरक्षणहिंसादानेषु । 'स्पृहिगृहिपतिदयि-'इत्यादिनालुच् । रयितम् । ४८२ रय गतौ । कर्तरि क्तः । ऊतेति । ४८३ ऊयी तन्तुसंताने । कर्मणि क्तः । अपूतिभिरिति । ४८४ पूयी विशरणे दुर्गन्धे च । क्विन् ॥

ईश्वरं विशिनष्टि चतुर्दशभिः- प्रक्रोपयन्तं मुरलीं महीभरक्ष्मायं बलस्फीतसुपीनदोर्युगम् । अशेषतां भ्रूशलनैर्वलदृशा प्रबल्लमानं प्रियबल्लवीशुचम् ॥ ६३ ॥ मुरलीं प्रक्रोपयन्तं शब्दयन्तं महीभरक्ष्मायं महीभरस्य क्ष्मायं विधूनयितारं त्यक्तारं बलेन स्फीतमतिस्थूलं दोर्युगं यस्य तम् । भ्रूशलैर्भ्रुवोश्चलनैरशेषतामशेषस्य नायितारं पालकम् । वलदृशा । वलन्या संचरन्या दृशा प्रियबल्लवीशुचं प्रवल्लमानं छादयन्तम् ॥-प्रक्रोपयन्तमिति । ४८५ क्रूयी शब्दे उन्दे च । 'अस्माण्णिचि अर्तिह्री-' इत्यादिना पुकि शता । भरक्ष्मायम् । ४८६ क्ष्मायी विधूनने । कर्मण्यण् । स्फीतसुपीनेति । ४८७ स्फायी ४८८ ओप्यायी वृद्धौ । द्वयोः कर्तरि क्तः । अशेषतां । ४८९ तायृ संतानपालनयोः । क्विपि 'लोपो व्योः' इति यलोपः । शलनैरिति । ४९० शल चलनसंवरणयोः। ल्युट् । वलदिति । ४९१ वल ४९२ वल्ल संवरणे संचरणे च । अनुदात्तेतां तडोऽनित्यत्वाद्वलेः शता । प्रवल्लमानमिति । वल्लचीति वल्लेः शानच् । औणादिकोऽवक्च ॥

मामल्यमानं स्मितमल्लिकावलीमाभाल्यदैत्याधिपभल्लनोद्धुरम् । कलोरुकल्लोलकलिन्दजाजले बालैस्तयूभिः सह देवनोत्सुकम् ॥६४॥