पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

शयन्तम् ॥-आशंसितेति । ६२९ आङः शसि इच्छायाम् । नोयधोऽयमित्येके । कर्मणि क्तः । प्रसिष्णुः । ६३० असु ६३१ ग्लसु अदने । 'भुवश्च' इति चकारादिष्णुच् । ग्लसेः शानच् । ईहाम् । ६३२ ईह चेष्टायांम् । बहुधेति । ६३३ बहि ६३४ महि वृद्धौ । 'बहेर्नलोपश्च' इत्युप्रत्ययः । 'संख्याया विधार्थे धा' इति धाप्रत्ययः । महेः कर्तरि कः । अह इति । ६३५ अंह गतौ । औणादिकोऽसुन् । गर्हेति । ६३६ गर्ह ६३७ गल्ह कुत्सायाम् । गर्हेरकारः । गल्हेर्ण्यत् ॥ बर्हप्रबल्हसमलंकृतिरालिलिङ्ग प्रोत्थाप्य वर्हकनिवल्हदुतं तमीशः । प्लीहायितासुरभरक्षतिवेहितोर्वी- भैषज्यजेहपरया निजबाहयैव ॥ ८१ ॥ ईशस्तं प्रोत्थाप्य निजबाहया एवं आलिलिङ्ग । कीदृशः । बहप्रबल्हेन बर्हश्रेष्ठेन समलंकृतिर्यस्य सः । कीदृशम् । बहकाणां हिंसकानां निवल्हेन हिंसया दुतमुपतप्तम् । कीदृश्या बाहया । प्लीहायितानां गुल्मरोगवदाचरतामसुराणां भरक्षतौ देहितायाः सप्र- यत्नाया उर्व्याः भैषज्यजेहे चिकित्साकरप्रयत्ने परया तत्परया ॥-बर्हप्रबल्हेति । ६३८ बह ६३९ बल्ह प्राधान्ये । द्वयोः पचाद्यच् । बर्हकनिवल्हेति । ६४० वह ६४१ वल्ह परिभाषणहिसाच्छादनेषु । दाने च दुमे । परिभाषणमत्र वञ्चनवादः । वहेर्ण्वुल् । वल्हेर्घञ् । प्लीहायितेति । ६४२ प्लिह गतौ । 'श्वनुक्षन्पूषन्प्लीहनक्लेद-स्नेहन्मूर्धन्मज्जन- र्यमविश्वप्सन्पारिज्मन्मातरिश्वन्मघवन्' इति लिहेः कनिनि दीर्घो निपातितः । वेहिवेति । ६४३ वेह ६४४ जेह ६४५ वाह प्रयत्ने । बेहृ इत्येके। जेहिर्गतौ । च वेहेः कर्तरि क्तः । जेहेर्धञ् । बाहेरचि टाप् ॥

द्राहित: शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः ।
गाढमैत्ररसगृह्यमाणधीभूषणग्लहनघुंषितो बलः ॥ ८२ ॥

अथ बलस्तमक्रूरं सस्वजे आलिङ्गितवान् । कीदृशः । शुभपथप्रकाशने सन्मार्गप्रवर्तने ब्राहितः उन्निद्रः । अनूह्यमतक्ये वैभवं यस्य सः । गाढेनातिमात्रेण मैत्ररसेन बन्धुत्वाला- देन गृह्यमाणा वशीक्रियमाणा धीर्यस्य सः। भूषणानां ग्लहनेन धारणेन धूषितः कृत- कान्तिः ॥-द्राहितेति । ६४६ दाह निद्राक्षये । क्षेपे चेत्येके । कर्तरि क्तः । प्रकाशनेति । ६४७ काश दीप्तौ । ल्युट् । ऊह्येति । ६४८ ऊह वितर्के । ण्यत् । गाढेति । ६४९ गाहू विलोडने । क्षोभणं तत् । लक्षणया जलाद्यवतरणेऽपि । भावे तः । गृह्यमाणेति । ६५० गृहू ग्रहणे । ६५१ ग्लहू च । गृहेः कर्मणि शानच् । ग्लनेति । ग्लहेर्ल्युट् । धुंषितेति । ६५२ घुषि कान्तिकरणे । घषी इत्येके । घषेत्यन्ये । धुक्षादय उदात्ता अनुदात्तेतः । कर्तरि क्तः॥