पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। द्वितीयः सर्गः। एवमङ्करस्य ब्रजप्राप्तिरूयं पूर्वदिनवृत्तान्तमुक्त्वा द्वितीयदिनवृत्तान्तं वक्तुमारभते- प्रद्योतनस्योदयमाप्य गोपाः श्वेतांशुकोन्मेदुरचारुवेषाः । अखिन्नरुग्घोटकरुट्यमानमार्गा जवेनालुटिता निरीयुः ॥ १॥ गोपाः प्रद्योतनस्योदयमाप्य जवेनालुटिता निरीयुः । प्रद्योतनः सूर्यः । उदयमाप्य लब्ध्वा इत्युदयमात्रस्य लाभत्वेनोक्त्या तेषा प्रस्थाने कौतुकातिशय उक्तः । अलुटिता अप्रतिहताः । कीदृशा इत्यत्राह---श्वेतांशुकेनोचैर्मेदुरः स्निग्धः पोषणशीलः चारर्वेषो येषां ते। अखिन्ना अमुक्ता अगता रुक् शोभा प्रीतिर्वा येषां तैर्घोटकैरश्वैर्भिद्यमानमार्गाः।- प्रद्योतनस्येति । ७४१ धुत दीप्तौ । कृपूपर्यन्ता उदात्ता अनुदात्तेतः । अस्माद्युच् । श्वेतेति । ७४२ श्विता वर्णे । पचाद्यच् । उन्मेदुरेति । ७४३ मिमिदा स्नेहने । 'भञ्जभासमिदो घुरच्' । अस्विन्नेति । ७४४ जिष्विदा स्नेहनमोचनयोः । मोहनयो- रित्येके । विदेः कर्तरि क्तः। रुगिति । ७४५ रुच दीप्तावभिप्रीतौ च । भावे संपदादि- क्विप् । बोटकेति । ७४६ घुट परिवर्तने । बुल् । रुळ्यमानेति । ७४७ रुट ७४८ लुट ७४९ लुठ प्रतिधाते । रुठेत्येके । रुटे: कर्मणि शानच् । लुटेः कर्तरि कः ॥ दुष्टनिग्रहभक्तानुपहरूपप्रधानकार्यार्थ भगवतः प्रस्थानमाह- कृष्णोऽपि तापोल्लुठिताङ्गशोभा आश्वास्य मारक्षुभिता महेलाः । अनभ्यसंतोभककंसजीवसंसाय पापध्वदयं प्रतस्थे ॥ २॥ अयं कृष्णोऽपि भारेण क्षुभिताश्चलिताः महेला आश्चास्यानभ्यानामहिंस्यानां संतो- भकस्य निहन्तुः कंसस्य जीवसंत्राय प्राणं शिथिलीकत व्यक्तुं प्रतस्थे जगाम । पायध्वत् पापनाशकः। तापेनोल्लुठिला प्रतिहताशशोभा यासां ताः । उल्छुठितेति ।-लुठेः कर्मणि क्तः। शोभेति । ७५० शुभ दीप्तौ । धनि टाप् । 'नानि तु पुंस्त्वं प्रायिकम्' इति घअन्त- स्यापि स्त्रीत्वम् । क्षुभितेति । ७५१ क्षुभ संचलने । तच पूर्वप्रकृतिविपर्यासो मथनं वा। आयेथे कर्तरि क्तः । अन्यत्र कर्मणि । अनभ्यसंतोभकेति । ७५२ णम ७५३ तुभ हिंसायाम् । नभेः 'पोरदुपधात्' इति यत् । तुभेण्वुल । संस्रायेति । ७५४ स्त्रंसु ७५५ ध्वंसु ७५६ भंसु अवस्रंसने । भ्रंशु इत्येके । ध्वंसु गतौ च । अयं नाशने प्रसिद्धः । संसेर्धञ् । पापध्वदिति । ध्वसेः क्विपि सौ 'वसुसंसुध्वंसु-' इति दः ।। अभ्रस्तविलम्बजुषा बलेन समं प्रवृत्तो भुवनाभिवृद्धवै । अशर्धनैर्गोपकुलैः सहासौ ययौ कृपास्यन्दसुक्लप्तमोदैः ॥ ३ ॥ असौ गोपकुलैः सह ययौ । अभ्रस्तविनम्भजुषा बलेन समं भुवनाभिवृध्यै प्रवृत्तः । अभ्रस्त अशिथिलं दृढं श्रीकृष्णे बिसम्भं विश्वासं जुषते सेवते इति तथा तेन बलेन । १. 'पुंभूनि चासुघु' इति मेदिनीतो जीववाचिप्राणशब्दस्य बहुवचनान्तत्वेन 'प्रा- गान्' इत्युचितम्. २. 'त्याजयितुम्' इत्युचितं प्रतिभाति.