पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। ["विष्णमुलो दीर्थोऽन्यतरस्याम्' इति दीर्घः । ] कदनैः । अनिदितः कदेयुट् । त्वरेति । ७७५ जित्वरा संभ्रमे । पित्त्वादड् ॥ गोपीनां वचोवैलव्याटुक्ति प्रपञ्चयति-- ताः संज्वरन्तीर्गलदश्रुधारा विमोहशक्त्या हिडयन्वियोगः । मिथो निजाति वटयांचकार हरेश्च चेष्टा भटयांचकार ॥६॥ वियोगस्ता विमोहशक्त्या हिडयन् बद्धाः कुर्वन् मिथो निजाति वटयांचकार । हरे- श्वेष्टाश्च भव्यांचकार । उभयत्र भाषयांचकारेत्यर्थः ।।--संज्वरन्तीः पीड्यमानाः गलद- श्रुप्रवाहाः । संज्वरन्तीरिति । ७७६ ज्वर रोगे । फणान्ता उदात्ता उदात्तेतः । ज्वरेः शतरि डीप गलदिति । ७७७ गड सेचने । तच्च जलादेः पतनमात्रम् । गडेः शता। हिडयन् । ७७८ हेड वेष्टने । णौ मित्त्वाद्रखः । 'एच इक्' । शता । क्टयांचकार । भटयांचकार इति । ७७९ वट ७८० भट परिभाषणे । श्चेट (१) इत्येके । आद्य- योणौ लिट् ॥ वियोगवह्निं नटयन्वतान्तकृति च नः प्रस्तकयनातोऽसौ । कृष्णः पुरस्त्रीश्चकयेदिदानी नर्माणि चोक्त्वा कखयेद्रगामः ॥ ७ ॥ नोऽस्माकमन्तर्मनसि वियोगवति नदयंश्चलयन् दीपयन्, धृति प्रस्तकयन् प्रति- हतां कुर्वेश्च गतोऽसौ कृष्ण इदानीं पुरस्त्रीश्चकयेत् तर्पयेत् नर्माण्युक्त्वा कखयेत् हासयेच्च । द्वयोः संभावने लिड् । बतेति खेदे । इति वयं रगामः शङ्कामहे ॥-नटयन्निति । ७८१ णट नृत्तौ । पूर्व नटव्यापारेऽयं धातुरुक्तः । अत्र तु नर्तनव्यापारश्चलनादिश्च नृत्तिः । तत्र मित्त्वम् । पट गतावित्येके । नतावित्यन्ये । प्रस्तकयन् । ७८२ एक प्रतिधाते। द्वयोणौँ शता । बकयेत् । ७८३ चक तृप्तौ । कखयेत् । ७८४ कखे इसने । द्वयो- लिड् । रगामः ! ७८५ रगे शङ्कायाम् । लट् । श्रीकृष्णविरहदुःखं छादयितुमशक्ता काचिदाह- लग्नं हृदन्ते गये कथं वा रागं कथं तु हगयामि तापम् । असग्यमान स्थगये कथं वा कगामि किंवा हरयेऽकिताय ॥ ८॥ अहं हृदन्ते लग्नं सक्तं रागं कथं वा हृगये च्छादयामि । तापं च कथं नु हगयामिछा- दयामि । असग्यं छादयितुमक्यमात्रमश्रुजालं कथं वा स्थगये च्छादयामि । रागतापयो- रन्तःस्थत्वेनादृश्यत्वेऽपि तद्धेतुरास्रोगमो दुर्धार एवेति भावः । अकिताय कुटिलं गताय व्याजेन प्रस्थिताय हरये हरि प्राप्तुं किं वा कगामि करोमि । न किंचिदपि कर्तुं शक्यमि- त्यर्थः ।।--लग्नमिति । ७८६ लगे सझे । 'क्षुब्धस्वान्तध्वान्त-' इत्यादिना तान्तो निपातितः । हगये । हगयामि । ७८७ हगे ७८८ हगे ७८९ षगे ७९० ष्टगे से- वरणे । तच्चान तिरोधानमेव । स्थगेर्ण्यन्तस्य तिरोधापनार्थदर्शनात् । आधयोरें लट् । असग्यम् । सेगेणौ ण्यत् । स्थगये स्थगे? लट् । कगामि । ७९१ कगे नोच्यते ।