पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम्। हिक अव्यक्ते शब्दे । शता । अचमानैः । अचद्भिः। ८६२ अञ्च गतौ याचने च । अचु इत्येके । अत्रु गतावित्यन्ये । अञ्चेः शानच् । अचेः शता । याचमानैः । ८६३ टु यावृ यानायाम् । डु याच इत्येके । शानच् । रेटदिति । ८६४ रेटू परिभाषणे । याचने च द्रुमे । शता । चातकैः । ८६५ चते ८६६ चदे याचने । चतेवुल् । चाद्यम् । चदेय॑त् । प्रोथति । ८६७ प्रो, पर्याप्तौ । अयं शब्दार्थोऽपि । अपपूर्वस्तु मारणे हुंकरणे वा । अस्मालट् ॥ यमुनाया अतिपुण्यत्वं शैत्यातिशयं चाह- नित्यं प्रमोहामिदितोरुमेदैः प्रमेधिता सद्भिरनिद्यमानैः । या लेदितोर्वीपरिशर्घिवीचीविमृद्धवृक्षादिविबोध्यशैत्या ॥ २६ ॥ या सद्भिनित्यं प्रमेधिता संगता । प्रमोहेणामिदितोऽपीडित उस्मेदो मेघा येषां तैः सद्भिः । अनिद्यमानैरकुत्स्यमानः । नेदितोर्वी नेदितां समीपभूतामुर्वी भुवं परिशर्धितु- मुन्दितुं सेक्तुं शीलं यासां ताभिर्वांचीभिर्विमृद्धरुन्दितैर्वृक्षादिभिर्विवोध्यं शैल्यं यस्याः सा 1- अमिदितेति । ८६८ मिट ८६९ मेह मेधाहिंसनयोः । मिथू मेथू इत्येके । मिथ मेधृ इत्यन्ये । ८७० मेच संगमे च । मिदेः कर्मणि क्तः । अनिद्यमानैः । ८७१ णिह ८७२ णे कुत्सासंनिकर्षयोः । निदेः कर्मणि शानच् । नेदितेति । नेदेः कर्तरि क्तः । परिशधि, विमृद्ध इति । ८७३ शृधु ८७४ मृधु उन्दने । धेणिनिः । मृधेः क- तरि क्तः । विबोध्येति । ८७५ बुधिर् बोधने । तत्तु ज्ञानमेव । अस्माज्यत् ॥ प्रवुन्धवणीजववेनमाना खातान्तिका चीवरिभिनिषादैः । चाच्या व्ययहाशविलोकभेषभ्रेषज्झषा यासघं स्पशन्ती ।। २७॥ या अघ स्पशन्ती परिहरन्ती आसदशोभत । प्रवुन्छन दर्शनीयेन वेणीजवेन प्रवाहवे- गेन सह वेनमाना गच्छन्ती । चीवरिभिः पटचरवद्भिर्निषादैः खातान्तिका । चाच्या पूज्या । दर्शनीया वा । व्ययतां गच्छतां दाशानां विलोकेन यो भेषो भयं तेन भ्रषन्तः संचरन्तश्चलन्तो झषा यस्यां सा ||---प्रबुन्द्येति । ८७६ उवुन्दिर निशामने । दर्शन तत् । ण्यत् । वेणीति । ८७७ वेणु गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वे इ- त्येके । वादित्रग्रहण वाद्यानां वादनार्थमादानम् । अस्मादौणादिके इनि 'कृदिकाराद. किनः' इति डीए । वेनमाना । वेनेः शानच् । खातेति । ८७८ खनु अवदारणे ! क- मणि क्तः । चीवरिभिः । ८७९ ची आदानसंवरणयोः। अनूदिदित्येके । अस्माद्ध- णादौ 'छित्वरच्छत्वर-' इत्यादिना निपातितश्चीवरशब्दः । अत इनिः । चाय्या ८८० चाय पूजानिशामनयोः । ण्यत् । व्ययदिति । ८८१ व्यय गतौ । शता । वित्तत्यागे त्वस्य निखं तड्डेव । दाशेति।८८२ दाश दाने। 'दाशगोनौ संप्रदाने' इत्यच् । भेषेति । ८८३ भेष भये। अगताविलेके । घञ् । भ्रषदिति ।८८४ भ्रष गतौ । चलन इत्येके ।