पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । हिंसार्थेऽप्यस्ति । कर्मणि कः । ९४० त्रु गतौ । सुतौ च द्रुमे । शु सु गतावित्येके । 'शुसिंचिमिजां दीर्घश्च' इति क्रन् । सुतेति । नुधातोः कर्तरि क्तः । सोतः । ९४१ षु प्रसवैश्वर्ययोः। प्रसवोऽभ्यनुन्ना । तृच् ॥ श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवञ्चक्रजिताज्ञितारिम् । स्मितावक्र गवमानभूषं गै त्वां घुताशं कुतशङ्खघोषैः ॥ ३५ ॥ अहं त्वां गै प्राप्त प्रार्थये । श्रुत्यन्तवाचोपनिषदा ध्रुवया नित्यया प्रदूनं ज्ञातम् । गत्य- ाज ज्ञानार्थता । घोरं यथा तथा द्रवता चक्रेण जिता अभिभूता अज्ञिता अन्यैरनभि- भूता अरयो येन तम् । मितेन मन्दहासेनार्द्रवक्त्रम् । गवमानाः शब्दायमाना भूषा यस्य तम् । कुतशङ्खस्य शब्दायमानशङ्खस्य घोषैर्युताशं शब्दितदिशम् ॥–श्रुतीति ।९४२ श्रु श्रवणे । 'श्रुयजषिस्तुभ्यः करणे' इति क्तिन् ।ध्रुवया।९४३ धु स्थैर्ये । बाहुलकात्कः । यद्वा 'ध्रुवमपाये' इति निर्देशात् साधुरिति माधवः । प्रदूनम् । ९४४ दु ९४५ द्रु गतौ । दोः कर्मणि क्तः । 'दुग्वोदीर्घश्च' इति निष्ठानत्वदीघौं । द्रवदिति । दुधातोः शता । जि- ताज्ञितेति । ९४६ जि ९४७ झिं अभिभवे । 'जि जि अभिभवे' इति लीलाशुकः । जिझ्योः कर्मणि क्तः । धयत्यादयोऽनुदात्ताः परस्मैभाषाः । स्मितेति । ९४८ मिङ् ईषद्धसने । नपुंसके भावे कः । गवमानेति । ९४९ गुण अव्यक्ते शब्दे । शानच् । गै इति । ९५० गाङ् गतौ । लोट् । घुतकुतेति । ९५१ घुङ् ९५२ कुङ् ९५३ उङ् ९५४ र्दुङ् शब्दे । कुड् अव्यक्तशब्दार्थ इति केचित् । द्वयोः कर्तरि क्तः ॥ स्तोत्रावमानैर्दुतवेणुवीणैञ्युताशुभैयामचरैर्युतं ते । प्रवे भवाब्धिप्लवमारुतानां धृतामयं भक्तिनिमेयमद्धिम् ।। ३६ ।। अहं भक्तिनिमेयं भक्त्या निमेयं व्यत्यसनीयं दानपूर्वं परिग्राह्यं ते अझिं प्रवे प्राप्नोमि ! कीदृशमनिम् । व्योमचरैर्दिव्यैर्युतं प्राप्तम् । आरुतानां प्राप्तानां धृत्तामयं ध्वस्तपीडम् । कीदृशैयामचरैः । स्तोत्रेणावसानैः शब्दायमानैः । तथा दुताः शब्दिता वेणवो वीणा च येषां तैः । च्युतं गतमशुभं येषां तैः ॥–अवमानैः । उड्धातोः शानच् । दु- तेति । दुडः कर्तरि तः । च्युतेति । ९५५ च्युङ् ९५६ ज्युङ् ९५७ फुङ्९५८ मुङ् गतौ । क्लुड् इति चैके । झुङ् इति चान्ये ! च्युडः कर्तरि क्तः । ज्युतम् । ज्युडः कर्मणि क्तः । प्रवे । मुडो लट् । प्लवम् । प्लुडः पचायच् । आरुतानाम् । ९५९ रुङ् गतिरेषणयोः । रेषणं हिंसा । कर्तरि क्तः । धृतेति । ९६० धृङ् अवध्वंसने । कर्तरि तः। निमेयम् । ९६१ मेङ् प्रणिदाने । तच्च विनिमयः । प्रत्यर्पणं वा । अचो यत् ॥ दयख मां देव कृपाम्बुशीत प्यानौजसा त्रातजगत्रयं लाम् । पूताखिलं मूतबलिं सुडीतौ ताक्ष्ये स्थितं प्राप्य तरामि मायाम् ॥३७॥ १. 'जि' इति धातुपाठे. २. 'डुड्' इति धातुपाठे. ३. 'क्लुड्' इति पाठः,