पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । टिम ११२५ ष्टीम आद्रोभावे । तीम इत्यप्येके । तिमः शता । सिम्यति । प्टिमेर्लट् । स्तीम्यत्सु । 'संधिसाम्यात् तीम्यत्खिति वा छेदः। टीमितीम्योः शता। नीलम् । ११२६ ब्रीड चोदने । चोदनं लज्जा । प्रेरणे च द्रुमे । पञ् । प्रेष्यः । ११२७ इष गतौ । ण्यत् । सुसोहनाय । ११२९ षुह चक्यर्थे । स च तृप्तिः ल्युट् । सहेत्यप्येके । जीर्ण इति । झीर्ण इति । ११३० जथ् ११३१ पृष् वयोहानौ । द्वयोः कर्तरि क्तः । दिवादय उदात्ता उदात्तेतः क्षिपिवर्जम् ॥ रजकवाक्यमाह- के सूयसे गिरमदूम नितान्तदीना- मुड्डीनकाकसम भूपतिधीनमेतत् । मीयस्व रीणनय मा क्षितिपालयेऽस्मि- न्द्रीयस्व धाष्टर्यमिति दुर्मतिरीशमूचे ॥ ५८ ॥ हे अदून अपीडित, उड्ढीनकाकसम, त्वं नितान्तदीनां गिरं सूयसे उत्पादयसि । एतत् त्वया याच्यमानमंशुकं भूपतिधीनं भूपाधारं तदायत्तम् । हे रीणनय गतविनय । अस्मिन् क्षितिपालये राजगृहे मा मीयस्व मृतो भव । धाष्टथै नीयस्व च्छादय । दुर्मतिरिति ईश- मूचे ॥--सूयसे इति । ११३२ धूङ् प्राणिप्रसवे । प्राणिग्रहणमतन्त्रम् । अयमसूयार्थोऽपि । अत्मालट् । अदून । ११३३ दूङ् परितापे । खादय ओदित इति ओदित्त्वान्निष्ठानत्वम् । दीनाम् । ११३४ दीङ् क्षये । उड्डोनेति । ११३५ डीङ् विहायसा गतौ । यतिमात्रे च । धीनम् । ११३६ धीङ् आधारे । एषु कर्तरि क्तः । सीयस्व ! ११३७ सीड् हिंसायास् । हिंसात्र मृतिः लोट् रीणेति । ११३८ री स्रवणे । प्राग्वत् क्तः । आलये ११३९ लीन श्लेषणे । 'एर । ब्रीयस्व । ११४० बीङ । घृणोत्सर्थे । छादनं परिग्रहो वा तत् । लोट । स्वादय ओदितः॥ आपीय तद्दिरममाननिरीतरोषः प्रीति श्यतोऽस्य स करेण शिरोधिमच्छात् । धर्मावसायजनदः खलु योऽजनिष्ट दीप्तोष्मपूर्णभुजतूर्णविधूर्णवैरी ॥ ५९ ॥ स तद्विरममापीय श्रुत्वा अमाननिरीतरोषोऽमानमनवधि यथा तथा निरीतो निर्गतो रोषा यस्य तादृशः सन् खस्य प्रीति इयतस्तनूकुर्वतो वासोदानाभावेन नाशयतोऽस्य रजकस्य शिरोधि करेणाच्छात् चिच्छेद । यःखलु धावसायजनदो धर्मनाशकजनानामवखण्डिता सन् अजनिष्ट । दीप्तोष्मपूर्णेन भुजेन तूर्ण यथा तथा विधूर्णा हिंसिता वैरिणो येन सः ।।---- १. 'खरे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्गलोपे 'मनः स्तीम्य' इति च्छेदः. पक्षान्तरे 'मनातीम्य' इति बोध्यम्. २. 'चोदने लज्जायां च इति धातुपाठः. ३. अत्र ११२८ वह बक्यर्ये नोपयुक्तः.