पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ काव्यमाला वृषणव्याचरसा । वृषणश्छिन्नो व्याचे व्याजे रस आग्रहो यस्याः सा । फलगणान् उञ्छती पृथक्पृथगाददाना । निशि अव्युच्छितायामनतिक्रान्तायां प्रत्यूषे एव स्नान्ती । एतैरत्यु- त्तमत्वमुक्तम् । हितं श्रेय एव जर्जती सर्वतो वदन्तीति कंसस्यानिष्टत्वे हेतुः । खल्या ख- लसमूहो यत्र सुखं यथा तथा आस्त स्थितवती । कीदृशी खल्या । कटु क्रूर चर्चन्ती परिभाषमाणा । बुधजनं झझती संतर्जयन्ती । भूपति राजानं दोषं त्वचित्वा आच्छाद्य नित्यं सर्वदा ऋचती प्रशंसन्ती । उब्जनोज्झितमनाः । उब्जनेनार्जवेनोज्झितं त्यक्तं मनो यस्याः सा ॥--वृक्णेति । १२९२ ओ व्रश्च छेदने । कर्मणि क्तः । व्याचेति । १२९३ व्यच व्याजीकरणे । पञ् । उञ्छती । १२९४ उछि उञ्छे । शतरि डीप् । 'आच्छी- नद्योर्नुम्' इति विकल्पान्नुमभावः । अव्युच्छितायाम् । १२९५ उछी विवसे । अतिक्र- मवन्धनवर्जनेषु च द्रुमे । कर्तरि क्तः । ऋच्छति । १२९६ ऋछ गतीन्द्रिप्रलयमू- तिभावेषु । इन्द्रियप्रलयो मोहः। मूर्तिभावः काठिन्यम् । अस्मालट् । मिच्छिता । १२९७ मिछ उत्क्लेशे । स च पीडा । कर्मणि क्तः । जर्जती । चर्चती । झर्झती। १२९८ जर्ज १२९९ चर्च १३०० झई परिभाषणसंतर्जनयोः । आद्यान्त्यावपि चान्तावित्येके । एषां शत्तरि डीम् । त्वचित्वा । १३०१ त्वच संवरणे । क्त्वा । ऋचती। १३०२ ऋच स्तुतौ । शतरि डीप्। उब्जनेति । १३०३ उब्ज आर्जवे । ल्युट् । ज्झितेति । १३०४ उज्झ उत्सर्गे । दस्य चुत्वम् । कर्मयि क्तः ॥ शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोपार्थिनो राज्ञो नित्यमतुम्पकान्वितुफती बन्धूंश्च संतुम्फती। युद्धेषूडपिता हितेष्वदृफिता यस्मिन्नुफन्ती सुरा- नृम्फाही पृतना स्थिता सुगुफितैर्माल्यैः कचान्गुम्फती ॥७४॥ यस्मिन् पृतना स्थिता । पृतनां विशिनष्टि---शत्रूल्लोभकरेफरीडितृपिता । शत्रूणामु- लोभकस्य मोहकस्य रेफस्य युद्धस्य रीढ्या कथनेनास्माभिरेवं शत्रूनाकुलीकृत्य युद्धं कृत- मिलि परस्परोक्त्या तृपिता सदा संतुष्टा । तोपार्थिनो हिंसेच्छो राशस्तृम्फाय संतोषाय अतुम्पकान् अहिसकान् सदा वितुफती हिसती बन्धूंश्च संतुम्फती हिसती । उदृपि उच्चैः क्लेशिताः शत्रवो येषु तेषु दुद्धेषु अपिता अक्लेशिता अप्रयत्ना । सुरान् ऋफन्ती हिंसती । एवंरूपत्वात् ऋम्फाहीं भगवत्कृतं वधमहंतीति ऋम्फास् । सुगुफितैः सम्य- ग्बद्धाल्यैः कवान् गुम्फती बनती । अनेन तस्या जितशत्रुत्वमुक्तम् ॥---उल्लोभकेति । १३०५ लुभ विमोहने । विमोहनं व्याकुलीकरणम् । एबुल् । रेफेति । १३०६ रिफ कत्थनयुद्धनिन्दाहिँखादानेषु । अस्माद् घभि रेफः । रीढीति । रिह इत्येके । क्तिन् । तृपिता । १३०७ तृप १३०८ तृन्फ तृप्तौ । प्रीणने द्रुमे । आधः तृफेत्येके । तृपेः १. 'भर्सनयोः' इति धातुपाठे. २. अयं च धातुर्दकारोपधः दकारस्य भत्वं भवति- श्चसंनिधाने ततो जश्त्वम्. तेन 'उब्जिजिषति' इतीष्टसिद्धिरिति स्पष्ट हयवरट्सूत्रे भाष्ये.