पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कुचज्जीवितैः कुचत् संकुचितं गतप्रायं जीवितं प्राणा येषां तैः ॥--कुटिलेति । १३६६ कुट कौटिल्ये । इतः कुडन्ताः कुटादयः। अस्मात् 'गुपादिभ्यः कित्' इतीलच् । अत्र कित्त्वं वृथा । डित्वेनैव गुणाभावात् । प्रपुटितैः । १३६७ पुट संश्लेषणे । कर्तरि कः। कुचदिति । १३६८ कुच संकोचने । शता। गुजद्भिः । १३६९ गुज शब्दे । अ. व्यक्त इत्येके । शता । सुगुडिताम् । १३७० गुड रक्षायाम् । कर्मणि क्तः। डिपद्भिः। १३७१ डिप क्षेपे । शता । छुरितेति । १३७२ छुर छेदने । लेपनेऽपि दृष्टः । कर्मणि क्तः । विस्फुटेति । १३७३ स्फुट विकसने । कः । मुटन् । १३७४ मुट आक्षेपमर्दनयोः । शता । त्रुटनतः । १३७५ त्रुट छेदने । प्रायोऽस्य द्वैधीभावे वृत्तिः । ल्युट् । प्रतुटनाय ! १३७६ तुट कलहकर्मणि । ल्युट् पोड्योऽयं चुडतेति केऽपि जुडतेत्यन्ये कडन्तोऽलुठ- न्देवे खैललिते कृडलिषि कुडद्गात्रे पुडित्वादरम् । ईशश्चाघुटितस्तुडन्खलमुदं रोष थुडन्प्रस्फुड- धाम स्वं स्फुरितो जगाम धनुष: पार्श्व क्षणादस्फुलन् ॥८१ ॥ केऽपि भटाः 'अयं पोज्यश्छेद्यः । एनं सर्वे चुडत छिन्त' इत्येवं वदन्तः, अन्ये 'जु- डत बनीत' इति वदन्तः, कडन्तो माद्यन्तः सन्तः खैरात्मीयललिते संश्लिष्टे कृडविषि घनीभवच्छोभे कुडद्गात्रे शिशुभवदेहेऽपि देवे आदरं बहुमानं पुडित्वा त्यक्त्वा अलुठन् संश्लिष्टाः संघातीभूता आसन् । ईशश्च ईशोऽपि अधुटितोऽप्रतिहतः खलमुदं तुडन् दार- यन् नाशयन् रोष थुडन्नाच्छादयन् स्त्रमसाधारणं धाम तेजः प्रभावं प्रस्फुडन् तिरोहितं कुर्वन् स्फुरितः शोभमानः अस्फुलन्नकम्पमानश्च सन् क्षणाच्छीघ्रं धनुषः पार्श्व समीपं जगाम ॥-पोड्य इति । १३७७ पुड १३७८ चुड छेदने । पुडेय॑त् । चुडत। चु- डेर्लोट् । जुडत । १३७९ जुड बन्धने । लोट् । कडन्तः । १३८० कड मदे। शता । अलुठन् । १३८१ लुठ संश्लेषणे । लुडेयेके। लुटेर्लङ् । लुलिवेति । लुडे: क- तरि कः । कृडदिति । १३८२ कृड धनत्वे । सान्द्रता तत् । शता। कुडदिति । १३८३ कुड बाल्ये । संघात इत्येके। भक्षणे च द्रुमे । शता । पुडित्वा । १३८४ पुड उत्सर्गे । क्त्वा । अघुटितः । १३८५ घुट प्रतिधाते । कर्तरि क्तः । तुडन् । १३८६ तुड तोडने । तच्च भेदनम् । शता । थुडन् । प्रस्फुडन् । १३८७ थुड १३८८ स्फुड संवरणे । कुड छुड इत्येके । आद्ययोः शता । स्फुरितः । १३८९ स्फुर १३९० स्फुल संचलने । स्फुर स्फुरणे । स्फुर संचलने इति केचित् । तत्र स्फुरणं शोभा । स्फुरेः कर्तरि क्तः । अस्फुलन् । स्फुलेः शता ॥ क्षौमेण स्फुडितं सजा निचुलितं चाब्रोड्यशोभं धनु- गेंहनोडतले स मोदकुलितो दृष्ट्वागुरिष्ट क्षणात् । १. 'चुट छुट' इति धातुपाठे. २. 'जुट' इति धातुपाठे. ३. 'स्थुड' इति धातुपाठे.