पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३३

पुटमेतत् सुपुष्टितम्

तौ तयोः परीरम्भे आलिङ्गने अधिकं अहंयुः अधिकास्थः । अहंकारवानहंयुः' इत्यमरः। तस्मै दम्भः गर्वः तस्याविष्कृतिः प्रकाशनं तत्र दक्षाः समर्थाः ये राक्षसाः तैः सह रणा- रम्भः तत्र अतिविक्रान्तौ अतिविक्रमयुक्तौ दोस्तम्भौ यस्य कोसलसुताडिम्भाय ।।

जैत्रायासुमतां पुलस्त्ययमिनः पौत्राय दत्ताहवो
धात्रा चन्द्रकलाभृता च गमित: स्तोत्रावलीपात्रताम् ।
गात्राणि प्रयतर्षिचित्तकरिणां तोत्रायितान्युद्वह-
न्भ्रात्रा च प्रियया च मे रघुपतिर्यात्रासु संनह्यतु ।। ४५ ॥

असुमतां प्राणिनां जैत्राय जयिने पुलस्त्ययमिनः पुलस्त्यर्षेः पौत्राय रावणाय दत्ता- हवः दत्तसमरः धात्रा ब्रह्मणा चन्द्रकलाभूता च ईश्वरेण च स्तोत्रावलीपात्रतां स्तुत्यता गमितः प्रापितः तर्षिचित्तकरिणां परिशुद्धर्षिमनसा तोत्रायितानि गजबन्धनस्तम्भाय- मानानि गात्राणि उद्वहन् दधानः स रघुपतिः ।।

तन्द्रावर्जितनृत्तगीतमतिमागिन्द्रावरोधाङ्गना-
मन्द्रारब्धविपञ्चिकास्वरझरीसान्द्रावदत्तस्तवम् ।
चन्द्रालिप्तभुजान्तरं स्मरणतोऽघं द्रावयन्तं नृणां
चन्द्रापीडशरासभङ्गचतुरं तं द्रागुपास्ते मनः ॥ ४६ ॥

तन्द्या आलस्येन । 'तन्द्री प्रमीला' इत्यमरः । वर्जिते रहिते ये नृत्तगीते तयोः मति- भाजः अत्यासक्ताः याः इन्द्रावरोधाङ्गनाः इन्द्रान्तःपुरस्त्रियः । भूभुजामन्तःपुरं स्यादय- रोधनम्' इत्यमरः । रम्भाद्याः मन्द्रारब्धः मन्द्रेण स्मर विशेषेण आरब्धः यः विपञ्चिका- स्वरः वीणास्वरः । 'वीणा तु वल्लकी । विपञ्ची' इत्यमरः । तस्य झर्या प्रवाहेण सान्द्रावदत्तः अधिकतया कृतः स्तवः स्तोत्रं यस्य तम्। चन्द्रालिप्तभुजान्तरं चन्द्रेण कर्पूरादिविशेषेण । 'चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु' इति मेदिनी । आलिप्तं भुजान्तरं वक्षः यस्य तम् । स्मरणतः स्मृत्वा नृणां मनुष्याणां अघं पापम् । 'एनोऽघमंहः' इत्यमरः । द्रावयन्तं निवर्तयन्तम् । चन्द्रापीडशरत्सभङ्गचतुरं शिवधनुःखण्डनपण्डितं मनः द्राक् झटिति उपास्ते । ममेति शेषः।।

तं दातारमभीप्सितस्य सहसा वन्दारवे देहिने
भिन्दानं स्मरतामघानि करुणासंदानितालोकनम् ।
मन्दारब्धमहीसुतादृगलिनीवृन्दानुबन्धस्फुर-
त्कुन्दालीमधुरस्मित्तास्यकमलं वन्दामहे राघवम् ।। ४७॥

अभीप्सितस्य प्रार्थितस्य वन्दारवे स्तोत्रे । 'वन्दारुरभिवादके' इत्यमरः । देहिने प्राणि- ने सहसा अविलम्बेन दातारम् । स्मरतां अघानि पापानि भिन्दानं भेत्तारम् । करुणासंदा-