पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३५

पुटमेतत् सुपुष्टितम्

त्कृपः उत्पन्नदयावान् यः। जलनिधेः निस्तोयीकरणे जलशून्यताकरणे तेजसा पराक्रमेण अस्तोपमः उपमानहीनः । स्तुतिकृत्सु स्तुतिकारकेषु शस्तोऽपि समर्थोऽपि यं राम स्तोतुं न पारयति न समर्थों भवति । हस्तोपात्तधनुःशरे हस्तधृतचापबाणे अस्मिन् भगवति

रामे समस्तः भरः भारः न्यस्तः निक्षिप्तः ।।
तृष्णा यद्विषयेषु धीविकलतां पुष्णाति धैर्य च य.
न्मुष्णाति श्रुतिदर्शिते पथि पदं कृष्णामिवान्तं न वा ।
उष्णाभीशुकुलाधिपस्य भजने वृष्णापि वन्द्योजसो
निष्णातस्तु भवन्क्षिपाम्यघगणान्कृष्णानिवाब्दान्मरुत् ॥५१॥

विषयेषु स्रक्चन्दनवनितादिषु तृष्णा आशा धीविकलतां धीशून्यतां पुष्णाति उत्पा- दयति आशां धैर्य च मुष्णाति अपहरतीति यत् तस्मात् श्रुतिदर्शिते वेदोक्ते पथि पदं स्थानं कृष्णामिवान्तं करोमि न वा 'कृष निष्कर्षे' कादिः धातुः। तथापि वृष्णापि इन्द्रे- णापि वन्द्यौजसः उष्णा भीशुकुलाधिपस्य सूर्यकुलाधिपस्य रामस्य भजने निष्णातः समर्थः भवन् मरुत् वायुः अब्दानिव मेधानिव अघगणान् पापनिवहान् क्षिपामि प्रेरयामि 'क्षिप प्रेरणे' शविकरण ॥

त्रातारं कमुपैमि कस्य भुवने भूतानुकम्पेति च
ध्यातासु त्रिदशावलीषु न भवत्येतादृगेकोऽपि यत् ।
वातापत्यनिवेशितप्रणयिनी दूताधिकारं ततः
सीताविभ्रमदेशिकं मृगयते जातादरं मे मनः ॥ ५२ ॥

भुवने भूमौ कं त्रातारं रक्षितारं उपैमि गच्छामि । कस्य भूतानुकम्पा भूतेषु प्राणिषु अनुकम्पा दया । 'कृपा दयानुकम्पा' इत्यमरः । इति त्रिदशावलीषु त्रिदशानां देवानां आवलीषु समूहेषु ध्यातासु सतीषु एतादृक् एष इव एषः रामः स इव एकोऽपि यन्न भवति ततः वातापत्यनिवेशितप्रणयिनी दूताधिकारं सीताविभ्रमदेशिकं रामं मे मनः जातादरं सन्मृगयते अन्वेषति ॥

स्तैमित्यस्पृशि यः स्मृतो हृदि सतां चामित्रषट्कोज्झिते
भूमित्राणकरः शशीव जनितो यो मित्रवंशाब्धिना ।
ओमित्याप वनं नियोक्तरि गुरौ सौमित्रिणा सीतया
यो मिथ्यावचनत्वदोषनुदि तं नौमि त्रिलोकीपतिम् ॥ ५३॥

यः रामः अमित्रषट्कोज्झिते कामक्रोधादिषट्शत्रुरहिते स्तैमित्यस्पृशि स्तिमितस्य भावः स्तैमित्यं निश्चलता तद्वति । निश्चले इत्यर्थः । सतां हृदि स्मृतः भूमित्राणकरः शशीव यः मित्रवंशाब्धिना सूर्यवंशसमुद्रेण जनितः । यः मिथ्यावचनत्वदोषनुदि असत्य- भीरौ गुरौ पितरि नियोक्तरि सति वन गच्छेति प्रेरके सति ओंइति । 'ओमित्यङ्गीकारे।